________________
श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः]
[३०३ तथा स्वगृहचैत्यढौकितचोक्षपूगीफलनैवेद्यादिविक्रयोत्थं पुष्पभोगादि स्वगृहचैत्ये न व्यापार्यम् , नापि चैत्ये स्वयमारोप्यम् , किं तु सम्यक्स्वरूपमुक्त्वाऽर्चकादेः पार्थ्यात् तद्योगाभावे सर्वेषां स्फुटं स्वरूपमुक्त्वा स्वयमारोपयेत् , अन्यथा मुधाजनप्रशंसादिदोषः । गृहचैत्यनैवेद्यादि चारामिकस्य प्रागुक्तमासदेयस्थाने नाना॑म् , आदावेव नैवेद्यार्पणेन मासदेयोक्तौ तु न दोषः, मुख्यवृत्त्या मासदेयं पृथगेव कार्यम् , गृहचैत्यनैवेद्यचोक्षादि तु देवगृहे मोच्यम् । अन्यथा गृहचैत्यद्रव्येणैव गृहचैत्यं पूजितं स्यात् , न तु स्वद्रव्येण, तथा चानादरावज्ञादिदोषः न चैवं युक्तम् , स्वदेहगृहकुटुम्बाद्यर्थं भूयसोऽपि व्ययस्य गृहस्थेन करणात् , देवगृहे देवपूजाऽपि स्वद्रव्येणैव यथाशक्ति कार्या, न तु स्वगृहढौकितनैवेद्यादिविक्रयोत्थद्रव्येण देवसत्कपुष्पादिना वा प्रागुक्तदोषात् । तथा देवगृहागतं नैवेद्याक्षतादि स्ववस्तवत् सम्यग रक्षणीयम् , सम्यग् मूल्यादियुक्त्या च विक्रेयम् , न तु यथा तथा मोच्यम् , देवद्रव्यविनाशादिदोषापत्तेः । सर्वप्रयत्नेन रक्षणादिचिन्ताकरणे जातु चौराग्न्याधुपद्रवाद्देवद्रव्यादि विनश्यति तदा तु चिन्ताकर्ता निर्दोष एव, अवश्यंभाविभावस्याप्रतिकार्यत्वात् । इति श्रीश्राद्धविधौ ॥२४॥
___ ज्ञानद्रव्यं हि देवद्रव्यवन्न कल्पते एव श्राद्धानां, साधारणमपि सङ्घदत्तमेव कल्पते व्यापारियुं न त्वन्यथा, सङ्केनापि सप्तक्षेत्रीकार्य एव व्यापार्यम् , न मार्गणादिभ्यो देयम् , साम्प्रतिकव्यवहारेण तु यद् गुरुन्युञ्छनादिसाधारणं कृतं स्यात्तस्य श्रावकश्राविकाणामर्पणे युक्तिरेव न दृश्यते, शालादिकार्ये तु तद्व्यापार्यते श्राद्धैः । एवं ज्ञानसत्कं कागदपत्रादिसाध्वाद्यर्पितं श्राद्धेन स्वकार्ये न व्यापार्यं स्वपुस्तिकायामपि न स्थाप्यं समधिकनिष्क्रय विना । साध्वादिसत्कमुखवस्त्रिकादेरपि व्यापारणं न युज्यते गुरुद्रव्यत्वात् , स्थापनाचार्यजपमालादि तु प्रायः श्राद्धार्पणार्थं गुरुभिर्विहियते तेन गुर्पिततद्ग्रहणे व्यवहारो दृश्यते । इति श्राद्धविधौ ॥२५॥
तस्माद्देवज्ञानादेयं क्षणमपि न स्थाप्यं, अन्यस्यापि देयस्य प्रदाने विवेकिभिः सर्वथा न विलम्ब्यते, किं पुनर्देवज्ञानादेः । यदा च यावता मालापरिधानादि कृतं तदा तावद्देवादिद्रव्यं जातं, तच्च कथमुपभुज्यते, कथं वा तल्लाभादि गृह्यते, पूर्वोक्तदेवादिद्रव्योपभोगदोषप्रसङ्गात् , तस्मात् सद्य एव तदर्पणीयम् । यस्तु सद्योऽर्पयितुमशक्तस्तेनादावेव पक्षार्द्धपक्षाद्यवधिः स्फुटं कार्यः । अवधिमध्ये च स्वयमर्प्यम् । मार्गणादिविनाऽपि । अवध्युल्लङ्घने देवद्रव्योपभोगदोषः । उद्ग्राहणिकापि शीघ्रमभग्नतया
D:\ratan.pm5\5th proof