________________
श्रीविचाररत्नाकरे सङ्कीर्णविचारसमुच्चयः]
[२९५ [अस्य चूर्णिः-] वित्थारो-पोहत्तं आयामो-दिग्घत्तणं रयणी-हत्थो तम्माणे ठितं रयणिमेत्तं । जस्स थंडिलस्स चत्तारि अंगुला अहे अचित्ता तं चउरंगुलावगाढं एयप्पमाणं जहण्णयं वित्थिण्णं ॥
"एत्तो हीणतरागं, खुड्डागं तं तु होइ नायव्वं ।
अइरेगयरं एत्तो, वित्थिण्णं तं तु नायव्वं" ॥२॥ [नि.भा./१८६५ ] [अस्य चूर्णिः-] सव्वुक्कोसं वित्थिण्णं, बारसजोअणं तं च जत्थ चक्कवट्टिखंधावारो ठिओ ॥ इति श्रीगच्छाचारप्रकीर्णके जत्थ य सन्निहिउक्खड' इत्येतद्गाथा ७२ वृत्तौ ॥९॥
अथ कारणे चतुर्मासकमध्येऽपि नावा नद्याद्युत्तरणमनुज्ञातम् । तथा हि"सत्त उ वासासु भवे, संघट्टा तिन्नि हुँति उडुबधे ।
ते तु न हणंति खित्तं, भिक्खायरियं च न हणंति" ॥२॥[नि.भा./४२४४] ये सप्तोदकसङ्घट्टा वर्षासु , त्रयः सङ्घट्टाः ऋतुबद्धे साधूनां भवन्ति, ते एतावन्तः क्षेत्रं नोपघ्नन्ति, न च भिक्षाचर्यामुपघ्नन्ति
"जह कारणंमि पुण्णे, अंतो तह कारणंमि असिवादी ।
उवहीगहणे लिंपण, नावोपगते पि जयणाए" ॥३॥ [नि.भा./४२४५] त्ति यथा कारणे पूर्णे मासकल्पे वर्षावासे वा अपरक्षेत्राभावे दृष्टमुत्तरणं तथा मासस्यान्तरप्यशिवादिभिः कारणैरुपधेर्वा ग्रहणार्थं लेपनायनार्थं वोत्तरणीयम् । कारणे यत्र नावाऽप्युदकं तीर्यते, तत्रापि यतनया सन्तरणीयम् । तत्र चायं विधिः
"नावथललेवहेट्ठा, लेवो वा उवरिए व लेवस्स ।
दोण्णि य दिवड्डमेगं, अद्धं नावाइ परिहाणी" ॥४॥[नि.भा./४२४६ ] तत्र पूर्वार्द्धपश्चार्द्धपदानां यथासङ्ख्येन योजना-नावुत्तरणस्थानाद्यदि द्वे योजने वर्क स्थलेन गम्यते तर्हि तेन गन्तव्यम् , न च नौरारोढव्या। 'लेवहिट्ठ'त्ति लेपस्याधस्ताद्दकसङ्घट्टेन यदि सार्द्धयोजनपरिरयेण गम्यते ततस्तत्र गम्यतां न नावमधिरोहेत् , एवं योजनपरिहारेण लेपेन गच्छतु न च नावमधिरोहेत् , अर्द्धयोजनपरिहारेण लेपोपरिणा गच्छतु , न च नावमधिरोहेत् । एवं नावुत्तरणस्थानात् स्थलादिषु योजनद्वयादिकं परिहीयते, एवमेव लेपोपर्युत्तरणस्थानात् सार्द्धयोजनपरिहारेण स्थलेन, एकयोजनपरिहारेण सङ्घट्टेन, अर्द्धयोजनपरिहारेण वा लेपेन गम्यतां, न च लेपोपरिणा। लेपोत्तरणस्थानादेकयोजनपरिहारेण स्थलेनार्द्धयोजनपरिहारेण वा
D:\ratan.pm5\5th proof