________________
[श्रीविचाररत्नाकरः आचारप्रकल्पधराः-निशीथाध्ययनधारिणो जघन्या गीतार्थाः, चतुर्दशपूर्विणः पुनरुत्कृष्टाः, तन्मध्यवर्तिनः कल्प-व्यवहार-दशाश्रुतस्कन्धधरादयो मध्यमाः । तेषां जघन्य-मध्यमोत्कृष्टानां गीतार्थानां निश्रया सबालवृद्धस्यापि गच्छस्य विहारो भवति, न पुनरगीतार्थस्य । इति श्रीगच्छाचारप्रकीर्णके 'सीयावेइ विहारं' इत्येतद्गाथा २३ वृत्तौ २६ पत्रे ॥८॥
अथ कल्पत्रेपस्वरूपं किञ्चिल्लिख्यते
आउत्ता कम्पतिप्पेस त्ति । आयक्ता-उद्यताः सावधाना वा यत्र गच्छे साधवः स्युः कयोः ? कल्पश्च त्रेपश्च कल्पत्रेपौ तयोः, तत्र कल्पो-भोजनानन्तरं पात्रधावनादिरूपः, स च सामान्येन सर्वत्र कल्पसप्तकरूपः, विशेषतस्तु जघन्यमध्यमोत्कृष्टभेदेन त्रिधा, कथम् ? ओदनमण्डकयवक्षोदकुल्माषराजमुद्गचवलकचवलिकावृत्तचणकसामान्यचणकनिष्पावतुवरीमसूरमुद्गाद्यलेपकृदाहारे गृहीते सति एकः पात्रस्य मध्ये कल्पो द्वितीयो बहिस्तृतीयस्तु सर्वत्रेति कल्पत्रयरूपो जघन्यः । शाकपेयायवागूकङ्गुकोद्रवौदनराद्धमुद्गदाल्यादिसौवीरतीमनाद्यल्पलेपकृदाहारे गृहीते सति द्वौ कल्पौ पात्रस्य मध्ये, ततो द्वौ बहिः, तत एकः सर्वत्रेति कल्पपञ्चकरूपो मध्यमः । तथा दुग्धदधिक्षरेयीतैलघृतगुडपानकादिबहुलेपकृदाहारे गृहीते सति कल्पत्रयं मध्ये, ततो द्वौ बहिः ततो द्वौ सर्वत्रेति कल्पसप्तकरूप उत्कृष्टः । इति वृद्धवादः । हस्ते तु मणिबन्धं यावत्कल्पो देय इति ।
पो-अपानादिक्षालनलक्षणः, अत्र किञ्चिन्निशीथसूत्रचतुर्थोद्देशकगतं लिख्यते-"जे भिक्खू वा भिक्खूणी वा साणुप्पाए उच्चारपासवणभूमि ण पडिलेहेइ न पडिलेहंतं वा सातिज्जति" ॥ [ नि.सू./३०३] अस्य चूर्णिः-साणुप्पाओ णाम चउब्भागावसेसचरिमा तीए । उच्चारपासवणभूमीओ पडिलेहियव्वाओ ।।
"जे भिक्खू वा भिक्खूणी वा तओ उच्चारपासवणभूमीओ ण पडिलेहेइ ण पडिलेहंतं वा सातिज्जति" ॥ [नि.सू./३०४]
"जे भिक्खू वा भिक्खूणी वा खुड्डागंसि थंडिलंसि उच्चारपासवणं परिढुवइ परिट्ठवंतं वा सातिज्जइ" ॥[नि.सू./३०५ ] अस्य चूर्णि:-रयणिप्पमाणाओ जं आरओ तं खुड्डागं, तत्थ जो वोसिरइ तस्स मासलहुं आणादिया य दोसा ।
“वित्थरायामेणं, थंडिलं जं भवे रयणिमेत्तं ।। चउरंगुलमोगाढं, जहन्नयं तं तु वित्थिन्नं" ॥१॥ [नि.भा./१८६४]
D:\ratan.pm5\5th proof