________________
[ श्रीविचाररत्नाकरः
धान्यराशयोऽमनोज्ञा द्रुमाश्च द्रव्ये वर्जनीयाः, किं तु अस्त्रपुताम्रसीसकराशयो द्रव्ये वर्जनीयाः । ‘अमणुन्नधन्नरासी' त्ति व्याख्यानयति - अमनोज्ञानि धान्यानि पुनः चशब्दः पुनरर्थे अमनोज्ञधान्यराशयः ॥
सम्प्रति कालतो ये दिवसा वर्जनीयास्तानेवाह
२२]
पडिकुट्ठेल्लगदिवसे, वज्जेज्जा अट्ठमिं च नवमिं च ।
छट्ठि च चउत्थि च, बारसिं दोन्हं पि पक्खाणं ॥५॥ [ व्य.भा./३०९] इह इल्लप्रत्ययः प्राकृते स्वार्थे, प्रतिकुष्टा एव प्रतिकुष्टेल्लकाः ते च ते दिवसाश्च प्रतिकुष्टेल्लकदिवसाः–प्रतिषिद्धा दिवसास्तान् वर्जयेत्, तानेव नामत आह-द्वयोरपि शुक्लकृष्णरूपयोः पक्षयोरष्टमीं नवमीं षष्ठीं चतुर्थी द्वादशीं च, एता हि तिथयः शुभप्रयोजनेषु सर्वेष्वपि स्वभावत एव प्रतिकूलास्ततो वर्जनीयाः, इदं कालतोऽप्रशस्तं वर्ज्यम् ॥
सन्ध्यागतादिनक्षत्रं तदेवाह
संझागयं १ रविगयं २, विड्डेरं ३ संग्गहं ४ विलंबिं ५ च । राहुहयं ६ गहभिन्नं ७, वज्जेज्जा सत्तनक्खत्ते ॥६॥ [ व्य.भा. / ३१० ] सन्ध्यागतं नाम यत्र नक्षत्रे सूर्योऽनन्तरं स्थास्यति तत् आदित्यपृष्ठस्थितम्, अन्ये पुना राहुर्यस्मिन्नुदिते सूर्य उदेति तत् सन्ध्यागतम्, अपरे त्वेवं ब्रुवते यत्र रविस्तिष्ठति तस्माच्चतुर्दशं पञ्चदशं वा नक्षत्रं सन्ध्यागतम्, रविगतं - यत्र रविस्तिष्ठति, पूर्वद्वारिके नक्षत्रे पूर्वदिशागन्तव्ये यदा अपरया दिशा गच्छति तदा तद्विद्वारं - विगतद्वारमित्यर्थः, यत्क्रूरग्रहेणाक्रान्तं तत्सग्रहम्, विलम्बि - यत्सूर्येण परिभुज्य मुक्तम्, अन्ये त्वाहुः - सूर्यस्य पृष्ठतोऽग्रतो वाऽनन्तरं नक्षत्रं सन्ध्यागतम्, यत्पुनः सूरगतान्नक्षत्रात् पृष्ठतस्तृतीयं तद्विलम्बि इति । राहुहतं यत्र सूर्यस्य चन्द्रस्य वा ग्रहणम्, यस्य मध्येन ग्रहो तद्ग्रहभिन्नम्, एतानि सप्तनक्षत्राणि चन्द्रयोगयुक्तानि वर्जयेत् ॥
यत एतष्विमे दोषाः
संझागयंमि कलहो, होइ कुभत्तं विलंबिनक्खत्ते ।
विड्डेरे परविजयो, आइच्चगए अनिव्वाणी ॥७॥ [ व्य.भा./३११] जं सग्गहंमि कीरइ, नक्खत्ते तत्थ वुग्गहो होइ ।
राहुहयंमि अ मरणं, गहभिन्ने सोणिउग्गालो ॥८॥ [ व्य.भा./३१२]
१. संगहं पा. २. संगहम्मि पा. ।
D:\ratan.pm5\5th proof