________________
श्रीविचाररत्नाकरेऽपरतटे पञ्चमस्तरङ्गः]
२७१ अप्रशस्ताश्च, तत्राप्रशस्तान् द्रव्यादीन् अप्रशस्तांश्च दिशो वर्जयित्वा प्रशस्तैर्द्रव्यादिभिदिग्विशेषैश्च, किमुक्तं भवति ? प्रशस्तेषु द्रव्यादिषु प्रशस्ताश्च दिशोऽभिगृह्यालोचयेत्आलोचनां दद्यात् ॥
तत्राप्रशस्तद्रव्यादिप्रतिपादनार्थमाह१भग्गघरे कुड्डेसु अ, रासीसु य जे दुमा य अमणुण्णा ।
तत्थ न आलोएज्जा, तप्पडिवक्खे दिसा तिन्नि ॥२॥[व्य.भा./३०६ ] यत्र स्तम्भकुम्भकुड्यादीनामन्यतमत् किमपि पतितं तद् भग्नगृहं तत्र, तथा 'कुड्डेसु'त्ति कड्यग्रहणात् कुड्यमात्राविशेषे । तत्र पाठान्तरम्-'रुद्देसु य'त्ति, तत्र रुद्रेषु-रुद्रगृहेषु , तथा राशिषु-अमनोज्ञतिलमाषकोद्रवादिधान्यराशिषु , ये च द्रुमा अमनोज्ञाःनिष्पत्रकण्टकीप्रभृतयोऽमनोज्ञाः, तत्र तेष्वप्याश्रयभूतेषु , उपलक्षणमेतत् अप्रशस्तासु तिथिषु , अप्रशस्तेषु च सन्ध्यागतादिषु नक्षत्रेषु अप्रशस्ताश्च यामादीदिशोऽभिगृह्य नालोचयेत् , किं तु तत्प्रतिपक्षे प्रशस्तद्रव्यादिरूपे आलोचयेत् । तथा प्रशस्ताश्च तिस्रो दिश: पूर्वामुत्तरां चरन्तीं चाऽभिगृह्य आलोचयेत् ।। इदानीममनोज्ञधान्यराश्यादिषु द्रव्यादित्वयोजनामाह
अमणुण्णधण्णरासी, अमणुण्णदुमा य होंति दव्वंमि।
भग्गघररुद्दऊसर, पवाय दड्ढाइ खित्तंमि ॥३॥[ व्य.भा./३०७] अमनोज्ञधान्यराशयोऽमनोज्ञद्रुमाश्च भवन्ति द्रव्ये द्रष्टव्या: भग्नगृह-प्रागुक्तस्वरूम् । 'रुद्द'त्ति रुद्रगृहं 'ऊसर'त्ति उषरं यत्र तृणादिकं नोद्गच्छति, छिन्नटङ्का-तटीप्रपातः, भृगुप्रपातादिकं वा, दग्धं-दवदग्धं, आदिशब्दाद्विद्युद्दग्धादिपरिग्रहः । इत्यादि सर्वं क्षेत्रं द्रष्टव्यम् ॥ तत्र यत् 'अमणुण्णदुमा य होंति दव्वंमि' इत्युक्तं तदेतद् व्याख्यानयति
निप्पत्त कंटइल्ले, विज्जुहते खारकडुयदड्ढे य ।
अयतउयतंबसीसग, दव्वे धण्णा य अमणुण्णा ॥४॥[व्य.भा./३०८ ] निष्पत्राः-स्वभावतः पत्ररहिताः करीरादयः, कण्टकिनो-बदरीबब्बूलप्रभृतयः, विद्युद्धताविद्युत्प्रपातभग्नाः, क्षाररसा-मोरडप्रभृतयः, कटुका:-कटुकरसा रोहिणीकुटजनिम्बादयः, दग्धा-दवदग्धाः, एतान् द्रुमान् अमनोज्ञान् जानीहीति वाक्यशेषः । न केवलममनोज्ञा
१. व्य.नि./६६ ।
D:\ratan.pm5\5th proof