________________
२७३
श्रीविचाररत्नाकरेऽपरतटे पञ्चमस्तरङ्गः] सन्ध्यागते नक्षत्रे शुभेषु प्रयोजनेषु प्रारभ्यमाणेषु कलहो-राटिर्भवति, विलम्बिनक्षत्रे कुभक्तम् , विद्वारे परेषां शत्रूणां विजयः, आदित्यगते-रविगते अनिर्वाणिः-असुखम् , सग्रहे पुनर्नक्षत्रे यत्क्रियते तत्र व्युद्ग्रहः-सङ्ग्रामो भवति, राहुहते मरणम् , ग्रहभिन्ने शोणितोद्गार:-शोणितविनिर्गमः, एवम्भूतेष्वप्रशस्तद्रव्यक्षेत्रकालभावेषु नालोचयेत् , किं तु प्रशस्तेषु । तत्र प्रशस्ते द्रव्ये शाल्यादिप्रशस्तधान्यराशिषु मणिकनकमौक्तिकवज्रवैडूर्यपद्मरागादिराशिषु च ॥ प्रशस्तं क्षेत्रं साक्षादाह
तप्पडिवक्खे खेत्ते, उच्छुवणे सालिचेइयघरे वा।
गंभीरसाणुणाए, पयाहिणावत्त उदए य ॥९॥[व्य.भा./३१३] तस्य प्रागुक्तस्याप्रशस्तस्य क्षेत्रस्य प्रतिपक्षे प्रशस्ते क्षेत्रे इक्षुवने, उपलक्षणमेतत् , आरामे वा पत्रपुष्पफलोपेते 'सालि'त्ति, वनशब्दोऽत्रापि सम्बध्यते, शालिवने चैत्यगृहे वा, वाशब्दो विकल्पने, तथा गम्भीरे गम्भीरं नाम भग्नत्वादिदोषवर्जितम् , शेषजनेन च प्रायेणालक्षणीयमध्यभागं स्थानं गम्भीरमिति वचनात् , सानुनादे यत्रोच्चारिते शब्दे प्रतिशब्दः समन्तादुत्तिष्ठति तत्सानुनादम् , प्रदक्षिणावर्त्तमुदकं यत्र नद्यां पद्मसरसि वा तत्प्रदक्षिणावर्तोदकं तस्मिन् वा चशब्दो वाशब्दार्थः क्वचिद्वाशब्दस्यैव पाठः । प्रशस्तं कालमाह
उत्तदिणसेसकाले, उच्चट्ठाणा गहा य भावंमि।
पुव्वदिसउत्तरा वा, चरंतिया जाव नवपुव्वी ॥१०॥[व्य.भा./३१४] उक्तानि यानि दिनानि अष्टम्यादीनि, तेभ्यो ये शेषा द्वितीयादयो दिवसास्ते स च कालश्च उक्तदिनशेषकालस्तस्मिन् प्रशस्ते व्यतिपातादिदोषवर्जिते, उपलक्षणमेतत् , प्रशस्ते च करणे प्रशस्ते मुहूर्ते, एतत् कालतः प्रशस्तमुक्तम् , भावतः प्रशस्तमाहउच्चैःस्थानं येषां ते उच्चैःस्थाना ग्रहा भावे-भावविषये प्रशस्तम् , किमुक्तं भवति ? भावत उच्चैःस्थानगतेषु ग्रहेषु , तत्र ग्रहाणामुच्चैःस्थानमेवम्-सूर्यस्य मेष उच्चैःस्थानम् , सोमस्य वृषः, मङ्गलस्य मकरः, बुधस्य कन्या, बृहस्पतेः कर्कट:, शुक्रस्य मीनः, शनेश्च तुला, सर्वेषामपि च ग्रहाणामात्मीयादुच्चैःस्थानाद्यत्सप्तमस्थानं तन्नीचैःस्थानम् । अथवा भावतः प्रशस्ता ये सोमग्रहा बुधशुक्रबृहस्पतिशशिनः, एतेषां सम्बन्धिषु राशिषु ,
१. पुव्वदिसि उत्तरा वा पा. ।
D:\ratan.pm5\5th proof