________________
स्ट]
[ श्रीविचाररत्नाकरः
अन्तर्मध्ये तरुण्यो गृहीतदण्डकहस्तास्तिष्ठन्ति, बहिस्तु स्थविरा:, तास्तरुण्योऽपि शब्दबृहद्धनिताबोलं कुर्वन्ति, येन भूयान् लोको मिलति । तांश्च स्तेनान् मैथुनार्थिन उपद्रवतो दण्डकैः प्रताडयन्ति । अथ तत्र वृषभाः सन्निहिता भवन्ति । ततस्ते गृहिण इव भूत्वा तान् वारयन्ति । इति श्री बृहत्कल्पसूत्रवृत्तौ द्वितीयखण्डे २७ पत्रे ॥२॥
ज्ञानदर्शनादिकं कञ्चिद् गुणं प्रेक्ष्य पार्श्वस्थादिपुरुषवन्दनेऽपि न दोष इत्यभिप्रायो लिख्यते
दंसण-नाण-चरित्तं, तव - विणयं जत्थ जत्तियं जाणे । जिrपन्नत्तं भत्ती, पूअए तं तहिं भावं ॥१॥ [ बृ.भा./ ४५५३ ] दर्शनं च नि:शङ्कितादिगुणोपेतं सम्यक्त्वम्, ज्ञानं चाचारादिश्रुतम्, चारित्रं च मूलोत्तरगुणानुपालनात्मकम्, दर्शनज्ञानचारित्रं द्वन्द्वैकवद्भावः, एवं तपश्चानशनादि, विनयश्चाभ्युत्थानादिस्तपोविनयं एतद्दर्शनादि यत्र पार्श्वस्थादौ पुरुषे यावद्यत्परिणामं स्वल्पं बहु वा जानीयात्तत्र तमेव भावं जिनप्रज्ञप्तं स्वचेतसि व्यवस्थाप्य तावत्यैव भक्त्या कृतिकर्मादिलक्षणया पूजयेत् ॥ इति बृहत्कल्पवृत्तौ तृतीयखण्डैकादशपत्रे ॥३॥
एतेनैव च ये पार्श्वस्थं सर्वथाऽचारित्रिणं मन्यन्ते तेऽपि परास्ता द्रष्टव्याः । केनचित् कारणबलेन परैः सह संवासे समापन्ने येन सह स्थेयं, यद्वा कर्त्तव्यं, तल्लिख्यते
पच्छन्न असति निण्हव, बोडिय भिक्खुय असोय सोया य । पउरदव वड्डगाई, गरहा य सअंतरं एक्को ॥१॥ [ बृ.भा./४८१८ ]
"
"
प्रच्छन्नस्य कण्टकचिलिमिलिकयोश्चाभावे निह्नवेषु तिष्ठन्ति । तदभावे बोटिकेषु, तदप्राप्तौ भिक्षुकेषु । एतेष्वपि पूर्वमशौचवादिषु ततः शौचवादिषु ततः शौचवादिषु च स्थिता आचमनादिषु क्रियासु प्रचुरद्रव्येण कार्यं कुर्वन्ति । चड्डकं कमढकं तत्र भुञ्जते । आदिशद्वादपरेणापि येन ते शौचवादिनो जुगुप्सां न कुर्वन्ति, तस्य परिग्रहः । एवं प्रवचनस्य गर्हा परिहृता भवति । सान्तरं चोपविष्टा भुञ्जते । 'एको'त्ति । एकः क्षुल्लकादिः कमढकानां कल्पं करोति ॥ इति श्रीबृहत्कल्पतृतीयखण्डे २४ पत्रे ॥४॥
कदाचिदज्ञानात् स्त्यानर्द्धिनिद्रावति दीक्षिते सति यो विधिः स लिख्यते— केसवअद्धबलं पन्नवेंति मुअ लिंग णत्थि तुह चरणं । णेच्छस्स हरइ संघो, ण वि एक्को मा पदोसं तु ॥१॥ [ बृ.भा./५०२३ ]
D:\ratan.pm5\5th proof