________________
श्रीविचाररत्नाकरेऽपरतटे चतुर्थस्तरङ्गः]
उवओगं हिट्टवरिं, काऊण ठविंतऽवंगुरते य।
पेहा जत्थ न सुज्झइ, पमज्जिउं तत्थ सारिति ॥९॥ [बृ.भा./२३६१] श्रोत्रादिभिरिन्द्रियैरधस्तादुपरि चोपयोगं कृत्वा द्वारं स्थगयन्ति वाऽपावृण्वन्ति वा । यत्र चान्धकारे प्रेक्षा-चक्षुषा निरीक्षणं न शुद्ध्यति तत्र रजोहरणेन दारुदण्डेन वा रजन्यां प्रमृज्य सारयन्ति द्वारं स्थगयन्तीत्यर्थः । उपलक्षणत्वादुद्घाटयन्तीत्यपि द्रष्टव्यम् ॥ इति बृहत्कल्पसूत्रवृत्तौ द्वितीयखण्डे विंशे पत्रे ॥१॥
साध्वीनां तु वसतौ कपाटमवश्यमपेक्षितं, सर्वथा च तदभावे विधिः कर्त्तव्यः स लिख्यतेद्वितीयपदमाह
अद्धाण निग्गयादी, तिक्खुत्तो मग्गिऊण असईए।
दव्वस्स व असईए ताओ वि अपच्छिमा पिंडी ॥१॥[बृ.भा./२३५०] अध्वनो निर्गतादयः संयत्यस्त्रिकृत्वस्त्रीन् वारान् वसतिं मार्गयित्वा असत्यलभ्यमाने गुप्तद्वार उपाश्रये अपावृतद्वारेऽपि वसन्ति । तत्र च यदि कपाटमवाप्यते ततः सुन्दरमेव, अथ न प्राप्यते, अतो द्रव्यस्य कपाटस्यासति कण्टकादिकमप्यानीय पिधातव्यं यावदपश्चिमा सर्वान्तिमा यतना। 'तओ वि पिंडी' त्ति ताः सर्वा अपि पिण्डीभूय परस्परं करबन्धं कृत्वा दण्डकव्यग्रहस्तास्तिष्ठन्तीति ।। एनामेव नियुक्तिगाथां व्याचष्टे
अन्नत्तो व कवाडं, कंटिय दंडचिलिमिलि बहिं किढिया ।
पिंडीभवंति सभए, काऊणऽन्नोन्नकरबन्धं ॥२॥[बृ.भा./२३५१] कपाटयुक्तस्य द्वारस्याभावे अन्यतोऽपि कपाटं याचित्वा द्वारं पिधातव्यम् , अथ याच्यमानमपि तन्न लब्धं, ततो वंशकटो याचितव्यः, तस्यालाभे कण्टिका:-कण्टकशाखाः, तासामप्राप्तौ दण्डकैस्तिरश्चीनाश्चिलिमिलिका क्रियते, तावतां दण्डकानामभावे वस्त्रचिलिमिलिका बध्यते, बहिरमूले किढिका:-स्थविराः क्रियन्ते । अथ कोऽपि तासामभिद्रवणं करोति, ततस्तादृशे सभये सोपसर्गे सति अन्योन्यकरबन्धं कृत्वा पिण्डीभवन्ति ॥ कथं पुनः? इत्यत आह
अंतो हवंति तरुणी, सदं दंडेहि ते पतालिंति । अह तत्थ होंति वसभा, वारिति गिही व ते होउं ॥३॥ [ बृ.भा./२३५२]