________________
६]
[ श्रीविचाररत्नाकरः आह-किं तत्कारणं येन द्वारं पिधीयते ? उच्यते
पडिणीय तेण सावय उब्भामग गोण साणऽणप्पज्झे ।
सीयं च दुरधियासं, दीहा पक्खी व सागरिए ॥६॥ [ बृ.भा./२३५८] उद्घाटिते द्वारे प्रत्यनीकः प्रविश्य हननं-अपद्रावणं वा कुर्यात् । स्तेना उपधिस्तेनाः शरीरस्तेना वा प्रविशेयुः एवं श्वापदाः-सिंहव्याघ्रादयः उद्भ्रामका:-पारदारिका: गौःबलीवर्दः श्वानः प्रतीतः एते वा द्वारमुद्घाटं दृष्ट्वा प्रविशेयुः तथा 'अणप्पज्झे'ति अनात्मवश:-क्षिप्तचित्तादि द्वारेऽपिहिते निर्गच्छेत् शीतं वा दुरधिसहं हिमकणानुषक्तं निपतेत् दीर्घा वा-सर्पाः पक्षिणो वा काककपोतप्रभृतयः प्रविशेयुः, सागारिको वा कश्चित् प्रतिश्रयमुद्धाटद्वारं दृष्ट्वा तत्र प्रविश्य शयीत विश्रामं वा गृह्णीयात् ॥
एक्कक्रमि उ ठाणे, चउरो मासा हवंति उग्धाया।
आणाइणो य दोसा, विराहणा संजमाऽऽयाए ॥७॥ [बृ.भा./२३५९] द्वारमस्थगयतामनन्तरोक्ते एकैकस्मिन् प्रत्यनीकप्रवेशादौ स्थाने यदि द्वारं न स्थगयन्ति तदा चत्वारो मासा उद्धाता:-लघवः प्रायश्चित्तं भवन्ति, आज्ञादयश्चात्र दोषाः, विराधना च संयमात्मविषया भावनीया । यदुक्तं चत्वारो मासा उद्धाता इति तदेतद्बाहुल्यमङ्गीकृत्य द्रष्टव्यम् ॥ अतोऽपवादयन्नाह
अहि-सावय-पच्चत्थिसु, गुरुगा सेसेसु हुंति चउलहुगा ।
तेण गुरुगा लहुगा, आणाइ विराहणा दुविहा ॥८॥[बृ.भा./२३६०] अहिषु श्वापदेषु च प्रत्यथिषु च प्रत्यनीकेषु द्वारमस्थगयतां प्रत्येकं चत्वारो गुरुकाः । शेषेषुभ्रामकादिषु सागारिकान्तेषु चतुर्लघुकाः । स्तेनेषु गुरुका लघुकाश्च भवन्ति, तत्र शरीरस्तेनेषु चतुर्गुरुकाः, उपधिस्तेनेषु चतुर्लघुकाः आज्ञादयश्च दोषाः । विराधना द्विविधा-संयमविराधना, आत्मविराधना च, तत्र संयमविराधना स्तेनैरुपधावपहृते तृणग्रहणमग्निसेवा वा कुर्वन्ति । सागारिकादयो वा तप्तायोगोलकल्पाः प्रविष्टाः सन्तो निषदनशयनादि कुर्वाणा बहूनां प्राणिजातीयानामुपमर्दनं कुर्युः । आत्मविराधना तु प्रत्यनीकादिषु स्फुटैवेति ।।
आह-ज्ञातमस्माभिरपिधानकारणं, परं काऽत्र यतना ? इति नाद्याऽपि वयं जानीमः । उच्यते
D:\ratan.pm5\5th proof