________________
श्रीविचाररत्नाकरेऽपरतटे चतुर्थस्तरङ्गः]
२६५ द्वारस्याधस्तादुपरि च गृहकोकिला वा सर्पो वा सञ्चारिमा वा कीटिका-कुन्थुकंसारिकादयो जीवा भवेयुः, आदिशब्दात् कोलिकादयो वा संपातिमसत्वाः, ततो द्वारं ढण्क्कयतामपावृण्वतां च-उद्धाटयतां 'निंतइताणं' ति निर्गच्छन्तां प्रविशतां वा गृहकोकिलादिप्राण्यभिघातो भवेत् । सर्पवृश्चिकादिभिर्वा साधूनामेवाभिघातो भवेत् ।। द्वितीयपदे द्वारं पिदध्यादपि । कथम् ? इत्याहसिय कारणे पिहिज्जा, जिण जाणग गच्छि इच्छिमो नाउं।
आगाढकारणंमि उ, कप्पड़ जयणाइ ठएउं ॥३॥[ बृ.भा./२३५५ ] स्यात्-कदाचित् कारणे पुष्टालम्बने पिदध्यादपि द्वारम् । जिनाः-जिनकल्पिका ज्ञायका:-तस्य कारणस्य सम्यग्वेत्तारः परं द्वारं न पिदधति । शिष्यः प्राह-गच्छे गच्छवासिनो इच्छामो वयं विधि ज्ञातुम् , सूरिराह-आगाढं प्रत्यनीकस्तेनादिरूपं यत्कारणं तत्र यतनया वक्ष्यमाणलक्षणया गच्छवासिनां द्वारं स्थगयितुं-पिधातुं कल्पते । एष नियुक्तिगाथासमासार्थः ।
अथैनामेव विवृणोति
जाणंति जिणा कज्जं, पत्ते वि उ तं न ते निसेवंति ।
थेरा वि उ जाणंती, अणागयं केइ पत्तं तु ॥४॥ [ बृ.भा./२३५६] जिनाः जिनकल्पिका अधितसातिशयश्रुतास्तत्कार्यमनागतमेव जानन्ति येन द्वारं पिधीयते, तच्च प्रत्यनीकस्तेनादिकं वक्ष्यमाणलक्षणं तस्मिंश्च प्राप्तेऽपि तत् द्वारपिधानं ते भगवन्तो न निषेवन्ते, निरपवादानुष्ठानपरत्वात् । स्थविरा अपि स्थविरकल्पिकाः अपि सातिशयश्रुतज्ञानाधुपयोगबलेन केचिदनागतमेव जानन्ति, केचित्तु निरतिशयाः प्राप्तमेव तत्कार्यं जानन्ते, ज्ञात्वा च यतनया तत् परिहरन्ति ॥
अहवा जिणप्पमाणा, कारणसेवी अदोसवं होइ।
थेरा वि जाणग च्चिय, कारण जयणाइ सेवंता ॥५॥ [ बृ.भा./२३५७] अथवा 'जिणजाणग' त्ति पदमन्यथा व्याख्यानयति-जिन:-तीर्थङ्करस्तस्य प्रामाण्यात् कारणद्वारपिधानसेवी अदोषवान् भवति, कुत इत्याह-'थेरा वि' इत्यादि, जिनानां हि भगवतामियमाज्ञा कारणे यतनया द्वारपिधानं सेवमानाः स्थविरकल्पिका अपि ज्ञायका एव सम्यग्विधिज्ञा एव ॥
D:\ratan.pm5\5th proof