________________
श्रीविचाररत्नाकरेऽपरतटे
॥ चतुर्थस्तरङ्गः ॥ यद्वदनपद्यकोशादुदितः सिद्धान्तमारुतः सुरभिः ।
कविचञ्चरीकचक्रं, प्रीणयति स तीर्थकृज्जयति ॥१॥ अथ श्रीबृहत्कल्पविचारा यथा
तत्र च केचन "सुसाणि सुन्नागारे वा"[ ] इत्यादीन्यन्यानि वा कपाटनिषेधाक्षराणि दर्शयन्तः सकपाटवेश्मस्थायिन इमे मुनय एव न भवन्तीत्यादि ब्रुवाणा आचार्योपाध्यायादिमहापुरुषाशातनया संसारं पल्लवयन्ति, कपाटनिषेधश्च जिनकल्पिकाश्रितः स्थविरकल्पिके योजयन्तीति नयनौषधं श्रवणयोः क्षिपन्तीति । स्थविरकल्पिकानां प्रत्युताकपाटोपाश्रयावस्थाने दोषा इत्यक्षराणि लिख्यन्ते
कप्पइ निग्गंथाणं अवंगुयदुवारिए उवस्सए वत्थए ॥ [ बृ.क./सू.१५ ] कल्पते निर्ग्रन्थानामपावृत्तद्वारे-उद्घाटद्वारे उपाश्रये वस्तुमिति सूत्रार्थः । अथ भाष्यविस्तर:
निग्गंथदारपिहणे, लहुओ मासो उ दोसु आणाई।
अइगमणे निग्गमणे, संघट्टणमाइ पलिमंथो ॥१॥[ बृ.भा./२३५३] निर्ग्रन्था यदि द्वारपरिधानं कुर्वन्ति तदा लघुको मासः प्रायश्चित्तम् , आज्ञादयश्च दोषाः, विराधना त्वियम्-कोऽपि साधुरतिगमनं-प्रवेशं करोति, अन्येन च साधुना द्वारपिधानाय कपाटं प्रेरितं तेन च तस्य शिरस्यभिघाते परितापादिका ग्लानारोपणा, एवं निर्गमनं कुर्वतोऽपि केनचिद् बहि:स्थितेन पश्चान्मुखं कपाटे प्रेरिते शीर्षं भिद्यते तथा त्रसजन्तूनां सङ्घट्टनमादिशब्दात् परितापनमपद्रावणं वा द्वारे पिधीयमाने अपाव्रियमाणे वा भवेत् , परिमन्थश्च-सूत्रार्थव्याघातो भूयो भूयः पिदधतामपावृण्वतां च भवति । एनामेव नियुक्तिगाथां व्याख्यानयति
घरकोइलिया सप्पे, संचाराई य हुंति हेट्ठवरिं। ढकिंत वंगुरिते, अभिघातो नितइंताणं ॥२॥[बृ.भा./२३५४]