________________
श्रीविचाररत्नाकरेऽपरतटे चतुर्थस्तरङ्गः ]
२६९ केशवो-वासुदेवस्तस्य बलादर्द्धबलं स्त्यानद्धिमतो भवतीति तीर्थकृदादयः प्रज्ञापयन्ति, एतच्च प्रथमसंहनिनमङ्गीकृत्योक्तम् , इदानीं पुनः सामान्यलोकबलाद्विगुणं त्रिगुणं चतुर्गुणं वा बलं भवतीति मन्तव्यम् । यत एवमतः स प्रज्ञापनीयः सौम्य ! मुञ्च लिङ्गं नास्ति तव चरणं-चारित्रम् , यद्येवं गुरुणा सानुनयं भणितो मुञ्चति ततः शोभनमथ न मुञ्चति ततो मोक्तुमनिच्छतः, ततः सकाशात् सङ्घः समुदितः 'से' तस्य लिङ्गं हरतिउद्दालयति, न पुनरेकः । कुतः? इत्याह-मा तस्यैकस्योपरि प्रद्वेषं गच्छेत् , प्रद्विष्टश्च व्यापादनमपि कुर्यात् ॥ लिङ्गापहारनियमार्थमिदमाह
अवि केवलमुप्पाडे, ण य लिङ्गं देइ अणतिसेसी से।
देसवयं दंसणं वा, गिण्ह अणिच्छे पलायंति ॥२॥ [ बृ.भा./५०२४] अपि:-सम्भावने, स चैतत् सम्भावयति । यद्यपि तेनैव भवग्रहणेन केवलमुत्पादयति तथाऽपि 'से' तस्य स्त्यानद्धिमतो लिङ्गमनतिशयी न ददाति, यः पुनरतिशयज्ञानी स जानाति न भूय एतस्य स्त्यानद्धिनिद्रोदयो भविष्यति ततो लिङ्गं ददाति इतरथा न ददाति, लिङ्गापहारे पुनः क्रियमाणेऽयमुपदेशो दीयते, देशव्रतानि-स्थूलप्राणातिपातविरमणादीनि गृहाण, तानि चेत् प्रतिपत्तुं न समर्थस्ततो दर्शनं–सम्यक्त्वं गृहाण । अथैवमप्यनुनीयमानो यदि लिङ्गं मोक्तुं नेच्छति तदा रात्रौ तं सुप्तं मुक्त्वा पलायन्ते-देशान्तरं गच्छन्ति । इति श्रीबृहत्ककल्पभाष्यवृत्तौ तृतीयखण्डे ४० पत्रे ॥५॥
यः सेनापति १ मन्त्रि २ पुरोहित ३ श्रेष्ठि ४ सार्थवाहसहितो राज्यं भक्ते, तस्य पिण्डो वर्जनीयः । अन्यत्र तु भजना इति श्रीबृहत्कल्पचतुर्थखण्डे १५३॥ पत्रे ॥६॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते
श्रीविचाररत्नाकरेऽपरतटे श्रीबृहत्कल्पविचारनामा चतुर्थस्तरङ्ग ॥४॥
D:\ratan.pm5\5th proof