________________
श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः]
[२३१ जह रण्णो विसएसुं , वइरे कणगे य रयय-लोहे य ।
चत्तारि आगरा खलु, चउण्ह पुत्ताण ते दिन्ना ॥१०॥[ओघ.भा./८] 'जह' यथा राज्ञो विषयेषु जनपदेषु वज्रकनकरजतलोहाकराः पुत्राणां ते प्रदत्ताः ॥१०॥ चिंता लोहागरिए, पडिसेहं कुणइ सो य लोहस्स।
वइराईहिं गहणं, करिति लोहस्स तिणियरे ॥११॥[ओघ.भा./९] चिन्ता लोहाकरोऽस्यास्तीति लोहाकरिकस्तस्मिन् , राज्ञा परिभूतोऽहमिति सोऽमात्यदत्तबुद्धिर्लोहप्रतिषेधं करोति, ततस्ते त्रुटितलोहोपकरणा वज्रादिभिर्ग्रहणं कुर्वन्ति लोहस्य, चशब्दात् कनकादिभिरितरे वज्राकरिकादयः ॥११॥
एवं चरणंमि ठिओ, करेइ गहणं विहीइ इयरेसिं । एएण कारणेणं, हवइ उ चरणं महिड्डीयं ॥१२॥[ओघ.भा./१०] एवं तदनेन कारणेन चरणं महर्टिकम् ॥१२॥ इति श्रीओघनियुक्तिसूत्रवृत्तौ ॥१४॥
पौरुष्यनन्तरं प्रातर्यावता साधूनां जल्पनमनुचितं महादोषनिदानम् । तथाहि१आउ१ ज्जोवण २ वणिए ३, अगणि ४ कुडंबी ५ कुकम्म ६ कुम्मरिए ७।
तेणे ८ मालागारे ९, उब्भामग १० पंथिए ११ जंते १२ ॥२६५॥[ओघ.भा./९० ] पौरुष्यनन्तरप्रातर्यावत् साधूनां बाढं वदतामेते दोषा द्वादश भवन्ति-शब्दं श्रुत्वा लोको बुध्यते विबुद्धः सन्नप्काययन्त्राणि योजयन्ते, वाहनानि सज्जयन्ते, तथा जलार्थं योषितो यान्ति १, 'जोवणं' धान्यप्रकस्तदर्थं लोको याति, लाटदेशे जोवणं धान्यनिकर: कथ्यते २, 'वणिय' त्ति वणिजो विभातमिति कृत्वा व्रजन्ति ३, 'अगणि'त्ति लोहकारैः शालादिष्वग्निः प्रज्वाल्यते ४, कुटुम्बिनः स्वकर्मणि लगन्ति ५, कुत्सितं कर्म येषां ते कुकर्माणो-मात्सिकाः ६, कुत्सितमारा:-सौकरिकास्तेषां विबोधो भवेत् ७, रात्रौ पूत्कारादिना स्तेनकानां बोधः ८, मालाकारा-मालिकास्तेषां बोधः ९, उद्भ्रामका:पारदारिका विबुध्यन्ते १०, पथिका विबुध्यन्ते ११, यान्त्रिका विबुद्धाः सन्तो यन्त्राणि वाहयन्ति चाक्रिकादयः १२, एते द्वादश दोषाः स्युस्तर्हि कथं कार्यम् ? यथाऽऽगमे उक्तमस्ति, यथा एका वृद्धा स्त्री पतितदन्ता तस्या भोजनार्थं लपनश्रीः क्रियते. शब्दादिरहितं यथा तया भोजनं विधीयते तथाऽत्रापि परश्रावणं विना (यदा परश्रावणं) कृतं विलोक्यते तदा किं क्रियते तत्राप्येष आगमोक्तो दृष्टान्तः यथा-सबद्धः कूपो वहन् केनापि न ज्ञायते तद्ज्ञप्त्यर्थं षट्को विधीयते तथा मुख्यप्रतिक्रामयिताऽधिकारे २ तथा तथा बाढस्वरेण सूत्रमुच्चरति । इति श्री ओघनियुक्तिसूत्रवृत्तौ ॥१५॥
१. ओ.नि.मू.गा. ८०, भा.गा. ९० प्रत्य. ।
D:\ratan.pm5\5th proof