________________
स]
[श्रीविचाररत्नाकरः चत्तारि उ अणुओगा, चरणे धम्मगणियाणुओगे य।
दविअणुओगे य तहा, अहक्कम ते महिड्डीया ॥७॥[ओघ.भा./५ ] व्याख्या-'चत्तारि' चत्वारोऽनुयोगाः, तुशब्दाद् द्वौ च पृथक्त्वापृथक्त्वभेदात् , 'चरणे' उत्तरपदलोपादित्थमुपन्यासः, अन्यथा चरणकरणानुयोग इत्येवं वाच्यम् , स
चैकादशाङ्गरूपः, धर्मानुयोगः-उत्तराध्ययनप्रकीर्णकरूपः, गणितानुयोगः-सूर्यप्रज्ञप्त्यादिरूपः, चशब्दः प्रत्येकमनुयोगपदसमुच्चायकः, द्रव्यानुयोगः-सदसत्पर्यालोचनारूपः, स च दृष्टिवादः, चशब्दादनार्षः । यथाक्रमं ते महद्धिका:-प्रधानाः ॥७॥
एवं व्याख्याते सत्याह पर:-चरणपदं भिन्नाया विभक्त्या किमर्थमुपन्यस्तम् ? धर्मगणितानुयोगौ तु एकयैव विभक्त्या, पुनर्द्रव्यानुयोगो भिन्नया विभक्त्येति ? तथाऽनुयोगशब्द एक एवोपन्यसनीयः, किमर्थं द्रव्यानुयोग इति भेदेनोपन्यासः इति ?, उच्यते-चरणपदस्य भेदोपन्यासे एतत्प्रयोजनं, चरणकरणानुयोग एवात्राधिकृतः प्राधान्यख्यापनार्थं भिन्नया विभक्त्योपन्यासः, धर्मगणितानुयोगवभिन्नावुपन्यस्तौ, तावत्र प्रक्रमेऽप्रधानाविति प्रदर्शनार्थम् , द्रव्यानुयोगस्य भिन्नत्वे इदं कार्यम्-यदयं हि एकैकानुयोगो मेलनीयः, न पुनर्लोकिकशास्त्रवधुक्तिभिर्विचारणीयः । अनुयोगशब्दद्वयोपन्यासे इदम्-यत्त्रयाणां पदानामन्तेऽनुयोगपदं तदपृथक्त्वाऽनुयोगार्थम् , यच्च द्रव्यानुयोग इति तत्पृथक्त्वानुयोगार्थम् । आह पर:-यथाक्रमं महद्धिका इति चरणलघुत्वं तत्किमर्थं तस्य नियुक्तिः क्रियते ? अपि तु द्रव्यानुयोगस्यैव क्रियताम् ? गुरुराह
सविसयबलवत्तं पुण, जुज्जि तह वि य महिड्डियं चरणं ।
चारित्तरक्खणट्ठा, जेणियरे तिण्णि अणुओगा ॥८॥[ओघ.भा./६] 'सविसय०' स्वविषये बलं वर्त्तते सर्वेषामात्मीयात्मीयविषये बलवत्त्वायुज्यते बलं तथाऽपि महर्द्धिकं चरणम् , शेषानुयोगानां चरणकरणार्थमेवोपादानादपरे वृत्तिभूताः ।।८।। कथम् ? चारित्ररक्षणार्थमिति चेत्तदाह
चरणपडिवत्तिहेउं, धम्मकहा कालदिक्खमाईया।
दविए दंसणसुद्धी, सणसुद्धस्स चरणं तु ॥९॥[ओघ.भा./७] चरणप्रतिपत्तेर्हेतुः किं तदाह-धर्मकथा काले दीक्षादयः शोभननक्षत्रतिथ्यादौ प्रव्रज्याप्रदानं कर्त्तव्यम् । द्रव्यानुयोगे दर्शनशुद्धिः, दर्शनशुद्धस्य चारित्रम् , विशेषेण चारित्रशुद्धस्य दर्शनं ॥९॥ दृष्टान्तमाह
१. ओ.नि.मू. १०तः १५ गा., भा.गा. ५त:१० ।
D:\ratan.pm5\5th proof