________________
श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः]
[२२९ योगो व्यापारः स चेह प्रक्रमाद्धर्मगतः एव तद्वान् , उपधानं-अङ्गाननाध्ययनादौ यथायोगमाचाम्लादिस्तपोविशेषस्तद्वान् , यद्यस्योपधानमुक्तं न तत्कृच्छ्रभीरुतयोत्सृज्यान्यथैवाऽधीते शृणोति वा, प्रियं-अनुकूलं करोतीति प्रियङ्करः कथञ्चित् केनचिदपकृतोऽपि न तत्प्रतिकूलमाचरति, किन्तु ममैव कर्मणामयं दोष इत्यवधारयन्नप्रियकारिण्यपि प्रियमेव चेष्टते इदं च भावयति
"अपकारिणि कोपश्चेत् , कोपे कोपः कथं न ते ।
धर्मार्थकाममोक्षाणां, प्रसह्य परिपन्थिनी" ॥१॥[ ] अत एव च 'पियंवाइ'त्ति केनचिदप्रियमुक्तोऽपि प्रियमेव वदतीत्येवंशील: प्रियवादी । उक्तं च
"सिक्खह पियाइ वोत्तुं, सव्वो तूसइ पियं भयंताणं । किं कोइलाहि दिणं, कस्स हियं किं च काएहिं? ॥१॥[ ] करयलमहिअस्स वि दमणयस्स महमहइ पेसलो गंधो ।
तवियस्स वि सज्जणमाणुसस्स महुरो समुल्लावो" ॥२॥ [ ] अन्यच्च
"सुजनो न याति विकृति, परहितनिरतो विनाशकालेऽपि ।
छेदेऽपि चन्दनतरुः, सुरभयति मुखं कुठारस्य' ॥३॥[ ] तथा चास्य को गुणः ? इत्याह-स एव गुणविशिष्टः शिक्षा शास्त्रार्थग्रहणादिरूपां लब्धंआप्तुमर्हति-योग्यो भवतीति, अनेनैवाविनीतस्त्वेतद्वीपरीतः शिक्षां न लब्धं नार्हतीत्यर्थादुक्तं भवति । तथा च यः शिक्षां लभते स बहुश्रुतः इतरस्त्वबहुश्रुत इति भावः, इति सूत्रार्थः । इति श्रीएकादशोत्तराध्ययनचतुर्दशसहस्त्रयां ३९५ प्रतौ १७० पत्र ॥१२॥
अथाष्टमीचतुर्दश्योर्वाचना न देया, इत्यक्षराणि लिख्यन्ते
"अट्ठमिपक्खिए मोत्तुं, वायणाकालमेव य सेसकालंमि इंतीओ, नेयाओ अकालचारीओ" ॥ इति श्रीउत्तराध्ययनचतुर्दशसहसस्त्रयां षोडशाध्ययनवृत्तौ २१९ पत्रे ॥१३॥
अथौघनियुक्तिसूत्रवृत्तिविशेषा गाथा-तत्र प्रथमं चतुर्णामनुयोगानां स्वरूपं, तेषां प्राधान्याप्राधान्ये च जिज्ञासया लिख्यते
D:\ratan.pm5\5th proof