________________
२८]
[श्रीविचाररत्नाकरः "एअं पच्चक्खाणं, अणुपालेऊण सुविहिओ सम्मं ।
वेमाणिओ य देवो, हवेज्ज अहवा वि सिज्झिज्जा" ॥१॥ [म.प./३२२] तथाऽपि विशिष्ट-विशिष्टतर-विशिष्टतमधृतिमतामेव तत्प्राप्तिरिति कनिष्ठादिस्तद्विशेष उच्यते । तथा हि-भक्तपरिज्ञामरणमार्यिकादीनामप्यस्ति । यत उक्तम्
"सव्वा वि अ अज्जाओ, सव्वेऽवि य पढमसंघयणवज्जा ।
सव्वेऽवि देसविरया, पच्चक्खाणेण उ मरंति" ॥१॥ [म.प./५४१] अत्र हि भक्तप्रत्याख्यानं भक्तपरिजैवोक्तम् । इङ्गिणीमरणं तु विशिष्टधृतिमतामेव सम्भवतीत्यार्यिकानिषेधोऽप्यत एवावसीयते, पादपोपगमनं तु नाम्नैव विशिष्टतमधृतिमतामेव । ततश्च वज्रर्षभनाराचसंहनिनामेवैतत् । उक्तं हि
"पढमंमि अ संघयणे, वटुंते सेलकुड्डसामाणे ।
तेसि पि अ वुच्छेओ, चोद्दसपुव्वीण वोच्छेए" ॥१॥ [ म.प./५३३] इति । इति श्रीपञ्चमोत्तराध्ययनचतुर्दशसहस्त्र्याम् ३९५ प्रतौ १०१ पत्रे ॥१०॥
केचिद्धि दीक्षाग्रहणे नामपरावर्त्तनं व्यर्थमिति वदन्ति परं तद्वाचालप्रलपितमित्यसत्यं मन्तव्यम् । यतः नमिराजर्षेः प्रत्येकबुद्धस्य जनन्या मदनरेखाया दीक्षाग्रहणे सुव्रतेति नाम कृतं श्रूयते तदस्माकमिदं साम्प्रदायिकमेव । नूतनानां तु नूतना रीतिर्भवतु नाम । अक्षरतस्तदिदम्
तीए वि तासिं साहूणीणं समीवे गहिया दिक्खा कयसुव्वयनामा तवसंजमं कुणमाणी विहरइ । श्रीनवमोत्तराध्ययनवृत्तौ चतुर्दशसहस्त्रयां ३९५ प्रतौ १४२ पत्रे ॥११॥
अथ प्रतिपदमागमोक्तमपि सदयहृदयैः सहृदयैरागमोक्तयुक्तभिर्बोध्यमानानपि योगोद्वहनमश्रद्दधतः कांश्चिद्देवानांप्रियान् वीक्ष्य दूरबोधिबोधाय तीर्थङ्करोऽप्यशक्त इति नि:प्रत्याशत्वेऽपि कथमपि भवतूपकार इति योगाक्षराणि लिख्यन्ते
वसे गुरुकुले निच्चं, जोगवं उवहाणवं ।
पियंकरे पियंवाई, से सिक्खं लद्भुमारिहइ ॥१४॥ [ उत्त.११ ] इति । वृत्तिर्यथा-वसेदासीत क्व ? गुरूणां-आचार्यादीनां कुलं-अन्वयो गच्छ इत्यर्थः । गुरुकुलं तत्र तदाज्ञोपलक्षणं च कुलग्रहणम् , नित्यं सदा, किमुक्तं भवति ? यावज्जीवमपि गुर्वाज्ञायामेव तिष्ठेत् । उक्तं च-"णाणस्स होइ भागी' [पं.व./१३५८ ] इत्यादि ।
D:\ratan.pm5\5th proof