________________
२]
[श्रीविचाररत्नाकरः ननु ये केचित् केवलिशरीराज्जीवविराधना न भवतीति वदन्ति ते स्वमतस्थापनायालपन्ति-केवली हि अचित्तवाय्वादिवत्येव प्रदेशे चलति निषीदति मेषोन्मेषादिकं करोति, ततस्तस्य विराधनासम्भव एव नास्ति इति, एतच्चानागमिकं कुत्राप्येवमनुक्तत्वात् अयौक्तिकं च, यदि केवलिनो विराधनासम्भव एव नास्ति तर्हि केवली कुतः प्रत्युपेक्षणादिकं करोति ? कथं वा तदुपकरणे जन्तुसन्ततिसम्भवः ? किं वा तामृते प्रत्युपेक्षणप्रयोजनम् ? किं च प्रत्युपेक्षणं कुर्वत: केवलिनो वायुकायविराधना सम्भवत्येव । केवलिप्रत्युपेक्षणाक्षराणि चेमानि
१दुविहा खलु पडिलेहा, छउमत्थाणं च केवलीणं च ।
अभितरबाहिरिया, दुविहा दव्वे य भावे य ॥४०३॥[ओ.नि.] द्विविधा प्रत्युपेक्षणा कतमेन द्वैविध्येन ? द्विधा इत्यत आह-छद्मस्थानां केवलिनां च, सा चैकेका द्विविधा, याऽसौ छद्मस्थानां सा द्विधा ग्राह्या बाह्या अभ्यन्तरा च, या च केवलिन साऽपि अभ्यन्तरा बाह्या च, ‘दव्वे भावे य' त्ति याऽसौ बाह्या प्रत्युपेक्षणा सा द्रव्यविषया, याऽप्यभ्यन्तरा सा भावविषयेति ॥४०३।। तत्र केवलिप्रत्युपेक्षणां प्रतिपादयन्नाह
पाणेहि उ संसत्ता, पडिलेहा होइ केवलीणं तु ।
संसत्तमसंसत्ता, छउमत्थाणं तु पडिलेहा ॥४०४॥[ओ.नि.] प्राणिभिः संसक्तं यद्रव्यं तद्विषया प्रत्युपेक्षणा भवति केवलिनाम् , 'संसत्तमसंसत्त'त्ति संसक्तद्रव्यविषया असंसक्तद्रव्यविषया च छद्मस्थानां प्रत्युपेक्षणा भवति । आह'यथोपन्यासस्तथा निर्देश' इति न्यायात् प्रथमं छद्मस्थानां व्याख्यातुं युक्तं पश्चात् केवलि-नामिति न कृतः? इत्युच्यते-तत्पूर्वकाः केवलिनो भवन्तीति अस्यार्थस्य ज्ञापनार्थमिति । अनेन वा कारणेन केवलिन: प्रत्युपेक्षणा कृता, पश्चाच्छद्मस्थानामिति ॥४०४॥ आह-तत्कथं प्रत्युपेक्षणां कुर्वन्ति ? इति
संसज्जइ धुवमेयं, अपेहियं तेण पुव्वपडिलेहे।
पडिलेहियं पि संसज्जइ त्ति संसत्तमेव जिणा ॥४०५॥[ओ.नि.] संसज्यते-प्राणिभिः संसर्गमुपयाति ध्रुवमवश्यमेतद्वस्त्रादि अप्रत्युपेक्षितं सत् तेन पूर्वमेव केवलिनः प्रत्युपेक्षणं कुर्वन्ति, यथा तु पुनरेवं संविदते इदमिदानीं वस्त्रादिप्रत्युपेक्षितमपि
१. ओ.नि.मू. ४२९तः ४३३ गा. प्रत्य. ।
D:\ratan.pm5\5th proof