________________
श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः]
[२२१ दुल्लहा उ मुहादाई, मुहाजीवी वि दुल्लहा।
मुहादाई-मुहाजीवी, दोऽवि गच्छंति सुग्गइं ॥१००॥ [ द./अ.५-उ.१] इति । वृत्तिर्यथा-दुर्लभा एव मुधादातारः, तथाविधभागवतवत् , मुधाजीविनोऽपि दुर्लभाः, तथाविधक्षुल्लकवत् । अमीषां फलमाह-मुधादातारो मुधाजीविनश्च द्वावप्येतौ गच्छतः सुगति-सिद्धिगतिं कदाचिदनन्तरमेव कदाचिद्देवलोकसुमानुष्यत्वप्रत्यागमनपरम्परया, ब्रवीमीति पूर्ववत् । अत्र भागवतोदाहरणम्-कश्चित् परिव्राजक: कञ्चनापि भक्तिमन्तं भागवतमवादीत्-यदि मदीयोदन्तमुद्वहसि ततोऽहं तव गृहे वर्षासमयं निर्वाहयामि, तेनोक्तम्-यदि मदीयां तप्ति न करोषि, तेनोक्तम्-एवं करिष्ये, ततः प्रदत्तस्तेन तस्मै समाश्रयः । न क्षुण्णं चकार भोजनादिस्तस्य गृहाधिपतिः अतिक्रान्ते कियत्यपि काले एकदा प्राप्तच्छिद्रैश्चोरैस्तस्य भागवतस्य प्रधानोऽश्वः प्रमादेन रक्षकाणामपहृतः । प्रभातं वर्त्तते, इति न शक्तास्ते तमश्वं निर्वोढुम् , ततोऽतिगहने तं (मुक्त्वा ) तेऽन्यत्रोपाययुः, अत्रान्तरे प्रातरेव स्नातुं परिव्राजकस्तडागमुपाजगाम, दृष्टश्च तेन सर:समीपवर्त्तिन्यां जाल्यमसौ तुरगः प्रत्यभिज्ञातश्च । अये ! सोऽयमश्वो योऽस्माकमुपकारिणो भागवतस्य तस्करैरपहृतः । तेन गत्वा स्वमावासमग्रे गृहपतिपुरुषाणामुक्तं यथा-मम स्नातुं सरसीं गतस्य जाल्यां धौतवासो विस्मृतं ततश्चाकथि । ततस्तैः पुमान् प्रहितः, तेन च तत्र गतेन दृष्टोऽसौ वाजी समानीतश्च कथितो गृहपतये । ततस्तेन समचिन्ति-अये ! व्याजेन व्रतिना ममोपकारः कृतः, तत्थकथमहं निर्व्याजदानफलं विहाय प्रत्युपकारेण दानप्रवृत्ति विदधामीति सम्प्रधार्य गदितोऽसौ परिव्राजक:-भद्र ! व्रज त्वमिदानीम् , न कृतोपकारिणो भवते तप्ति विधास्यामि, यस्मादुपकारिणि विहितं दानं निष्फलमुपजायते, इत्येष मुधादायीति । मुधाजीविन्युदाहरणमुच्यते-कश्चिन्नरपतिरनित्यतां विलोक्य प्रियाणामपि पुत्रकलत्रपौत्रादीनामुपजातवैराग्यो धर्माधर्मपरीक्षां चक्रे । “को वा अणिविटुं भुंजइ" ततस्तं परीक्षयामीति सम्प्रधार्य पुरुषानादिदेश-यथा राजा मोदकान् प्रयच्छति समागत्य गृह्यताम् । इति समाकर्योद्घोषणामुपाजग्मुः कार्पटिकप्रभृतयोऽर्थिजनाः । पृष्टाश्च ते भूभुजा-केन भवन्तो जीवथ ? तत्रैकेनोक्तम्-अहं तावन्मुखेन, अपरेण गदितम्-अहं पादाभ्याम् , अपरेणोक्तम्-अहं हस्ताभ्याम् , अन्येन निवेदितम्-अहं लोकानुग्रहेण, क्षुल्लकसाधुनोक्तम्-अहं मुधिकयेति । ततस्तान्नरपतिः पुनर्जगाद-कथमिव ? इति ततः प्रथमो जगाद-अहं तावत्कथको जनानां विस्तार्य रामायणादिकथां कथयामि, तेन मुखेन
D:\ratan.pm5\5th proof