________________
स्र]
[ श्रीविचाररत्नाकरः जीवामीति । द्वितीयः प्राह - अहं लेखवाहको घटिकामध्ये योजनं लङ्घयामि, तेन पादाभ्यां जीवामीति । तृतीयः प्राह - अहं हि लेखकोऽतो हस्ताभ्यां जीवामि । भिक्षुणोक्तम्- अहं प्रव्रजितः, अतो लोकानामनुग्रहेण । क्षुल्लकसाधुनोक्तम् - प्रव्रजितो जन्मजरामरणरोगशोकाद्युपद्रवशतोपद्रुतं, दारिद्रयदौर्भाग्यकलङ्कव्रातकलुषितं, इष्टवियोगानिष्टसंयोगदुःखजनितव्यसनशतनिलयं, क्षुधापिपासाशीतोष्णक्लेशसहस्रसङ्कुलं, दैन्यचिन्ताजरादिभिः क्षणमप्यमुक्तसमीपं संसारं विलोक्य ततो निर्विण्णः प्रतिपद्यामुं शरीरमानसानेकदुःखजलधिविलङ्घनसेतुं, सौभाग्यसौजन्योदार्योपकारकारणप्रतिनिष्ठं, ज्ञानविज्ञानजनकं, विजितसमस्तराजन्यचक्रराज्यसम्पादकं, स्वर्गावाससम्पादितसुखाशयसन्दोहं, मोक्षफलदायकं जैनं धर्मम् । ततो मुधिकया यथोपलब्धेनाहारजातेन जीवामीति निशम्य तद्भाषितं, अहो ! एष धर्मः सर्वदुःखप्रमोक्षप्रसाधक इति निश्चित्य विशेषेणाचार्यसमीपे धर्ममाकर्ण्य प्रतिबुद्धो राज्ये सुतं संस्थाप्य प्रव्रज्यामसौ नरपतिरग्रहीत् । एष मुधाजीवी । इति दशवैकालिकपञ्चमाध्ययने प्रथमोद्देशके ॥५ ॥
I
ननु प्रस्तरघटितायां प्रतिमायां किं वन्दनपूजनादिविधिना, किं वा दर्शनेन ? मैवं अरे भद्रमुख ! भगवतोऽयमाकारः, एतद्दर्शनाच्च भगवत्स्मरणम्, ततश्च पुण्योत्पत्तिर्युक्तैव यथा-चित्रलिखितकान्तकान्तावलोकनात् कामाध्यवसायोत्पत्तेस्तन्निषिद्धं तथेदं पुण्यहेतुत्वादादृतमपि । चित्रवशावलोकननिषेधश्चायम्—
चित्तभित्तिं न निज्झाए, नारिं वा सुअलंकियं ।
भक्खरं पिव दट्ठूणं, दिट्ठि पडिसमाहरे ॥५५ ॥ [ द./अ.८ ] इति । वृत्तिर्यथा - चित्रभित्तिं- चित्रगतां स्त्रियं न निध्यायेत्-नालोकयेत्, नारीं वा सचेतनां स्वलङ्कृतां, उपलक्षणादनलङ्कृतां न निरीक्षेत् । कथञ्चिद्दर्शनयोगेऽपि भास्करमिव सूर्यमिव दृष्ट्वा दृष्टं प्रतिसमाहरेत् — द्राग् निवर्त्तयेत् । इति श्रीदशवैकालिकाष्टमाचारप्रणिधानाध्ययने १५७ पत्रे ॥६॥
पुनरपि दण्डकाक्षराणि लिख्यन्ते
सेभिक्खू वा भिक्खूणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से कीडं वा पयंगं वा कुंथुं वा पिपीलियं वा हत्थंसि वा पायंसि वा बाहुंसि वा ऊरुंसि वा उदरंसि वा
१. दश. अ. ४/१५ सू.
D:\ratan.pm5\5th proof