________________
[श्रीविचाररत्नाकरः सम्यक्त्वचरणयुक्ताः प्राणिन उत्कृष्टतः सर्वं लोकं स्पृशन्ति, एते च केवलिसमुद्धातावस्थायामिति । जघन्यतस्त्वसङ्ख्येयभागमिति । तथा श्रुतसामायिकसहिताः सप्तचतुर्दशभागान् स्पृशन्ति अच्युते उत्पद्यमानाः चशब्दाद्वयादींश्च । अन्यत्रेति अधस्तु ते न गच्छन्त्येव तं परिणामापरित्यज्येत्यर्थः ॥१३॥
साम्प्रतं भावस्पर्शनोच्यते-श्रुतादिसामायिकं कियद्भवैः स्पृष्टम् ? इत्याह१सव्वजीवेहिं सुअं, सम्मचरित्ताइ सव्वसिद्धेहिं ।
भागेहि असंखिज्जेहि, फासिया देसविरई उ॥१४॥ सर्वजीवैः सांव्यवहारराश्यन्तर्गतैः सामान्यश्रुतं स्पृष्टम् । तथा सर्वसिद्धैः सम्यक्त्वचारित्रे स्पृष्टे तदनुभवमन्तरेण सिद्धत्वानुपपत्तेः, तथा सिद्धभागैरसङ्ख्येयैः स्पृष्टा देशविरतिः । इदमत्र हृदयम्-सर्वसिद्धानां बुद्ध्या असङ्ख्येयभागीकृता असङ्ख्येयभागैरेकभागेनैर्देशविरतिः स्पृष्टा, असङ्ख्येयभागेन तु न स्पृष्टा, यथा मरुदेवीस्वामिन्येति गाथार्थः ॥१४।। इत्यावश्यकमलयगिरिवृत्तो ४३५ प्रतौ ३४२ । ३४३ पत्रे ॥३॥
अथ श्रीदशवैकालिकविचारा यथा
अज्ञातपरम्पराः केचन धर्मलाभं न वदन्ति तदज्ञानम् , अवग्रहयाचनेऽर्थाद्धर्मलाभस्यायातत्वात् । तथाहि
साणीपावारपिहियं, अप्पणा नावपुंगरे।
कवाडं नो पणुल्लिज्जा, उग्गहं से अजाइया ॥१८॥ [ द./अ.५-उ.१ ] वृत्तिर्यथा-शाणी-अतसी-वल्कलजा पटी, प्रावार:-प्रतीतः कम्बलाद्युपलक्षणमेतत् , एवमादिभिः विहितं-स्थगितं गृहमिति वाक्यशेषः । आत्मना स्वयं नापवृणुयात्नोद्घाटयेत् । अलौकिकत्वेन तदनन्तर्गतभुजिक्रियादिकारिणां प्रद्वेषप्रसङ्गात् । तथा कपाटं-द्वारस्थगनं न प्रेरयेत्-नोद्घाटयेत् , पूर्वोक्तदोषप्रसङ्गात् , किमविशेषेण ? न इत्याह-अवग्रहमयाचित्वा, आगाढप्रयोजनेऽननुज्ञाप्यावग्रह-विधिना धर्मलाभमकृत्वा ॥१८॥ इति श्रीदशवैकालिकपिण्डैषणाध्ययनप्रथमोद्देशके ११४ पत्रे ॥४॥
__ गृहस्था हि मुधादायिनः प्रशस्याः साधवश्च मुधाजीविनः प्रशस्याः । उक्तोऽर्थश्च दृष्टान्तद्वारा सुखाधिगम्यो भवतीति सदृष्टान्तं मुधादायि-मुधाजीविस्वरूपं लिख्यते
१. वि.भा./२७८३ ।
D:\ratan.pm5\5th proof