________________
श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङः]
[२१९ १सम्मत्तदेसविरया, पलिअस्सासंखभागमेत्ताओ।
अट्ठभवा य चरित्ते, अणंतकालं च सुअसमए ॥१०॥ सम्यक्त्ववन्तो देशविरतिमन्तश्च स्वं स्वं सामायिक क्षेत्रपल्योपमासङ्ख्येयभागमात्रान् भवान् यावल्लभन्ते, इदमत्र हृदयम्-एकजीव उत्कर्षतः सम्यक्त्वं देशविरतिं चासङ्ख्येयान् भवान् यावल्लभत इत्यर्थः, जघन्यतस्त्वेको भवः । तथोत्कर्षत एकजीवः सर्वविरतिं अष्टौ भवान् यावत् प्राप्नोति, ततः सिद्ध्यतीति । जघन्यतस्त्वेक एव तथोत्कर्षत एक जीवः सामान्यश्रुतसामायिकमनन्तान् भवान् यावल्लभते, जघन्यतस्त्वेक भवमेव मरुदेवीवच्चेति ॥१०॥
साम्प्रतमाकर्षद्वारमाह-आकर्षणमाकर्षः प्रथमतया ग्रहणं, मुक्तस्य वा ग्रहणमित्यर्थः ।
२तिण्ह सहस्सपुहुत्तं, सयपुहुत्तं च होइ विरईए ।
एगभवे आगरिसा, एवइया हुंति नायव्वा ॥११॥ आद्यसामायिकत्रयाणामुत्कर्षत एकभवे सहस्रपृथक्त्वमाकर्षानेकजीवः करोति । सर्वविरतेः शतपृथक्त्वमाकर्षानेकभवे करोति । जघन्यतस्त्वेकमेवेति गाथार्थः ॥११॥ नानाभवाकर्षनाह
३तिण्ह सहस्समसंखा, सहसपुहुत्तं च होइ विरईए।
नाणाभवआगरिसा, एवइया होंति नायव्वा ॥१२॥ आद्यत्रयाणां सहस्राण्यसङ्ख्येयानि, सर्वविरतेः सहस्रपृथक्त्वं च, एतावन्तो नानाभवेष्वाकर्षाः । इयं भावना-त्रयाणां ोकभवे सहस्रपृथक्त्वमाकर्षाणामुक्तम् , भवाश्च पल्योपमासङ्ख्येयभागसमयतुल्याः, ततश्च सहस्रपृथक्त्वं, तैर्गुणितं सहस्राण्यसङ्ख्येयानीति । सर्वविरतेरेकभवे शतपृथक्त्वमाकर्षाणामुक्तम् , भवाश्चाष्टौ शतपृथक्त्वमष्टभिर्गुणितं सहस्रपृथक्त्वं भवतीत्यवयवार्थः ॥१२॥
अधुना क्षेत्रस्पर्शनाद्वारमाह५सम्मत्तचरणसहिआ, सव्वं लोअं फुसइ निरवसेसं । सत्त य चउदसभाए, पंच य सुअदेसविरईए ॥१३॥
१. वि.भा./२७७९ । २. वि.भा./२७८० । ३. वि.भा./२७८१ । ४. दोण्हपुहुत्तमसंखा वि.भा./२७८१ गा. । ५. वि.भा./२७८२ गा. ।
D:\ratan.pm5\5th proof