________________
रक्षा
[श्रीविचाररत्नाकरः _ 'देवसु अणुव्वटे, २दुगं चउक्नं सिया य उवट्टे।
उव्वट्टमाणओ पुण, सव्वो वि न किंचि पडिवज्जे ॥४५॥ व्याख्या-देवेष्वनुद्धृतः सन् द्विकमाद्यसामायिकद्वयमाश्रित्योभयथा भवतीति क्रिया । 'चउक्कं सिया य उव्वट्टे' इति पूर्ववत् , उद्वर्त्तमानक: पुनरपान्तरालगतौ सर्वोऽप्यमरादि न किञ्चित् प्रतिपद्यते, प्राक्प्रतिपन्नस्तु द्वयोर्भवतीति गाथार्थः । इत्यावश्यकमलयगिरिवृत्तौ ४३५ प्रतौ ३३६ पत्रे ॥२॥
अथ सम्यक्त्वादिसामायिकचतुष्कविचारो लिख्यते-प्रथमं सामायिकचतुष्कलाभद्वारमाह
अब्भुट्ठाणे विणये, परक्कमे साहुसेवणाए य ।
सम्मइंसणलंभो, विरयाविरईअ विरईए ॥१॥ अभ्युत्थाने सति सम्यग्दर्शनलाभो भवतीति क्रिया, तथा विनये-अञ्जलिप्रग्रहादिरूपे, तथा पराक्रमे कषायजये तथा साधुसाध्वीसेवायाम् , तथा विरताविरते:-देशविरतेविरते:सर्वविरतेर्लाभः ॥१॥
___ तच्चतुष्कमित्थं लब्धं सत् कियन्तं कालं जघन्यत उत्कर्षतश्च भवति ? इति स्थितिद्वारं प्रतिपादयन्नाह
३सम्मत्तस्स सुअस्स य, छावट्ठीसागरोवमाइ ठिई।
सेसाण पुव्वकोडी, देसूणा होइ उक्कोसा ॥२॥ सम्यक्त्वस्य श्रुतस्य च लब्धिमङ्गीकृत्य सम्यक्त्वसामायिक श्रुतसामायिकयोरुत्कृष्टा स्थितिः षट्षष्टिः सागरोपमाणि किञ्चिदधिकानि ॥२॥ कथं इति चेत् ? उच्यते
दो वारे विजयाइसु, गयस्स तिणिच्चुए य छावट्ठी ।
नरजम्मपुव्वकोडी, पुहुत्तमुक्कोसतो अहिअं ॥३॥ देशविरति-सर्वविरतिसामायिकयोरुत्कृष्टा स्थितिर्देशोना पूर्वकोटी सप्तमासाधिकवर्षाष्टकोना पूर्वकोटीति यावत् । जघन्यतस्त्वाद्यसामायिकत्रयस्य स्थितिरन्तर्मुहूर्तम् , सर्वविरतिसामायिकस्यैकः समयः, चारित्रपरिणामारम्भसमयानन्तरमेव कस्याप्या
१. वि.भाष्ये/२७४८ गा. । २. दुग तिग चउरो.....। वि.भा. ३. वि.भाष्ये/२७६१ गा.। ४. वि.भाष्ये/२७६२ ।
D:\ratan.pm5\5th proof