________________
श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः]
[२१७ युष्कक्षयसम्भवात् , देशविरतिपरिणामस्त्वन्तर्मोहूर्तिकः, एवं द्विविधत्रिविधादिभङ्गबहुलप्राणातिपातादिनिवृत्तिरूपत्वात् , सर्वजीवापेक्षया तु सर्वाणि सर्वदा इति ॥३॥
अथैकस्मिन् समये सामायिकचतुष्कस्य प्रतिपद्यमानकान् प्रतिपादयन्नाह१सम्मत्तदेसविरया, पलिअस्स असंखभागमेत्ताओ।
सेढीअसंखभागो, सुए सहस्सग्गसो विरई ॥४॥ उत्कर्षत एकस्मिन् विवक्षितसमये सम्यक्त्वं देशविरतिं च प्रतिपद्यमानाः प्राणिनः क्षेत्रपल्योपमासङ्ख्येयभागमात्राः प्राप्यन्ते, किन्तु देशविरतिसामायिकप्रतिपत्तृभ्यः सम्यक्त्वप्रतिपत्तारोऽसङ्ख्येयगुणाः प्रतिपत्तव्याः, तथोत्कर्षत एकस्मिन् समये श्रुते सामान्यश्रुते अक्षरात्मके प्रतिपत्तारोऽसङ्ख्येयाः घनीकृतलोकैकश्रेण्यसङ्ख्येयभागमात्रा लभ्यन्ते । तथा सर्वविरतिप्रतिपत्तार उत्कर्षत एकस्मिन् समये सहस्राग्रशो ज्ञेयाः । तथा जघन्यतश्चतुर्णामपि सामायिकानां प्रतिपत्तार एको द्वौ वेति गाथार्थः ॥४।।
सम्प्रति प्राक्प्रतिपन्नान् प्रतिपतितांश्च प्रतिपादयन्नाह२सम्मत्तदेसविरया पडिवन्ना संपई असंखिज्जा।
संखिज्जा य चरित्ते, तीसु वि पडिया अणंतगुणा ॥५॥ सम्यग्दृष्टयो देशविरताश्च प्राक् प्रतिपन्नाः सम्प्रति-विवक्षिते वर्तमानसमये उत्कर्षतो जघन्यतश्चासङ्ख्येयाः प्राप्यन्ते इति शेषः । किन्तु जघन्यपदादुत्कृष्टपदे विशेषाधिकाः । एते च प्रत्येकं प्रतिपद्यमानकेभ्योऽसङ्ख्येयगुणाः । 'संखिज्जा य चरित्ते' त्ति चारित्रे प्राक्प्रतिपन्ना सङ्ख्येयाः एतेऽपि स्वस्थाने प्रतिपद्यमानकेभ्यो पूर्वप्रतिपन्नेभ्यश्च चरणपतिता अनन्तगुणाः, तेभ्यो देशविरतिपतिता असङ्ख्येयगुणाः तेभ्योऽपि सम्यक्त्वप्रतिपतिता असङ्ख्येयगुणाः । तदेवमत्र श्रुतवर्जसामायिकत्रयपूर्वप्रतिपन्नाः, प्रतिपतिताश्चोक्ताः ॥५॥
अथ श्रुतस्य तानाह३सुअपडिवन्ना संपइ, पयरस्स असंखभागमेत्ताओ।
सेसा संसारत्था, सुअपरिवडिया हु ते सव्वे ॥६॥ सम्यग्मिथ्यारूपस्य सामान्येनाक्षरात्मकस्य श्रुतस्य ये पूर्वप्रतिपन्नास्ते सम्प्रति-वर्तमानसमये प्रतरस्यासङ्ख्येयभागमात्राः प्राप्यन्ते । तथा श्रुतप्रतिपन्नमानकेभ्यस्तु ये शेषाः
१. वि.भा./२७६४ । २. वि.भा./२७६५ । ३. वि.भा./२७६६ ।
D:\ratan.pm5\5th proof