________________
श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः]
[२१५ विस्तरेण, क्वचिद्विस्तरवतोऽप्यतिसङ्केपेणाभिधाने अक्तिनैः स्वल्पमतिभिर्यथावस्थितार्थतया ज्ञातुमशक्यत्वात् । अत एवोक्तमिदमन्यत्र
"जं जह भणियं सुत्ते, तहेव जइ तं वियालणा नत्थि ।
किं कालिकाणुयोगो, दिट्ठो दिटिप्पहाणेहिं" ॥१॥ [ बृ.भा./३३१५ ] तस्मात् पूर्वसूरिकृतव्याख्यानान्नाधिकृतग्रन्थविरोधः । आह च भाष्यकृत्
सुत्ताभिप्पाओऽयं, पयासणिज्जे तयं न उ पयासे ।
वक्खाणओ विसेसो, न हि संदेहादिलक्खणया ॥१॥[वि.भा./३४७] अथोक्तप्रमाणविषयमुल्लङ्घ्य कस्माच्छोत्रादि शब्दादिकं न गृह्णाति ? उच्यतेसामर्थ्याभावात् , उत्कर्षतोऽपि श्रोत्रादीनामेतावत्येव शक्तिः । यद्वादशादिभ्य एव योजनेभ्य आगतान् शब्दादीन् गृह्णाति, न परतः । चक्षुरपि सातिरेकयोजनलक्षात्तद्व्यवस्थितं, न परतोऽपीति । तथा द्वादशभ्यो नवभ्यश्च योजनेभ्यः परतः समागतानां शब्दादिद्रव्याणां तथाविधपरिणामाभावाच्च, परतो हि समागताः शब्दपुद्गलास्तथास्वाभाव्यान्मन्दपरिणामास्तथोपजायन्ते येन स्वविषयं श्रोत्रादिज्ञानं नोत्पादयितमीशाः । आह च भाष्यकृत्
बारसहिंतो सोत्तं, सेसाणि उ नवहि जोअणेहितो।
गेहंति पत्तमत्थं, एत्तो परतो न गेण्हंति ॥१॥[वि.भा./३४८] इत्यावश्यकमलयगिरिवृत्तौ ४३५ प्रतौ २३ । २४ । २५ पत्रे ॥१॥
अथोद्धृतानुद्धृतेषु तिर्यगनरामरेषु कियन्ति सामायिकानि भवन्तीति विचारो लिख्यते
'तिरिएसु अणुवट्टे, तिगं चउक्कं सिया य उवट्टे ।
मणुएसु अणुव्वट्टे, चउरो तिदुगं तु उव्वट्टे ॥४४॥ व्याख्या-तिर्यक्षु गर्भव्युत्क्रान्तिकेषु संज्ञिष्वनुद्धृतः सन् त्रिकमाद्यं त्रिसामायिकमधिकृत्य प्रतिपत्ता प्रतिपन्नश्च भवतीत्यध्याहारः, 'चउक्कं सिया य उव्वट्टे' उद्धृतस्तु मनुष्येष्यायातः स्याच्चतुष्कं स्यात्रिकं स्याद्विकमधिकृत्योभयथाऽपि भवतीति । ‘मणुएसु अणुव्वट्टे चउरो तिदुगं तु उव्वट्टे' मनुष्येष्वनुद्धृतः सन् चत्वारि प्रतिपद्यते प्राक्प्रतिपन्नश्च भवतीति, त्रीणि द्विकं तुशब्दो विशेषणे उद्धृतस्तिर्यग्नरामरेष्वायातस्त्रीणि द्विकं चाधिकृत्योभयथाऽपि भवतीति गाथार्थः ।
१. वि.भाष्ये/२७४७ गा. । २. चउरो बितियं सिउव्वट्टे । वि.भा.
D:\ratan.pm5\5th proof