________________
२२४]
[श्रीविचाररत्नाकरः अस्याक्षरगमनिका-तदुच्छ्याङ्गलमिन्द्रियमानेऽप्यास्तामिन्द्रियविषयपरिमाणचिन्तायामित्यपि शब्दार्थः भजनीयं-विकल्पनीयं, क्वापि गृह्यते क्वापि न गृह्यते इत्यर्थः । किमुक्तं भवति ? स्पर्शनेन्द्रियपृथुत्वपरिमाणचिन्तायां ग्राह्यमन्येन्द्रियपृथुत्वपरिमाणचिन्तायां तु न ग्राह्यम् , तेषामात्माङ्गलेन परिमाणकरणादिति । कथमेतदवसेयमिति चेत् ? तत आह-यत् यस्मात् सर्वेषामपीन्द्रियाणामुच्छ्रयाङ्गलेन परिमाणकरणे त्रिगव्यूतानामादिशब्दाद्विगव्यूतादि परिग्रहः, जिह्वेन्द्रियादिमानं सूत्रोक्तं संव्यवहारे विरुध्येत । यथा च विरुध्येत तथाऽनन्तरमेव भावितं, तस्मात् सर्वमिन्द्रियविषयपरिमाणमात्माङ्गलेनैवेति स्थितम् । ननु भवत्वात्माङ्गलेन विषयपरिमाणं तथाऽप्युक्तस्वरूपं चक्षुरिन्द्रियविषयपरिमाणं न घटते, अधिकस्यापि तद्विषयपरिमाणस्यागमान्तरे प्रतिपादनात् । तथा हिपुष्करवरार्द्ध मानुषोत्तरपर्वतसमीपे मनुष्याः कर्कसङ्क्रान्तौ प्रमाणाङ्गलनिष्पन्नैः सातिरेकैकविंशतियोजनलक्षैर्व्यवस्थितमादित्यमवलोकमानाः प्रतिपाद्यन्ते शास्त्रान्तरे । तथा च तद्ग्रन्थ:
१"इगवीसं खलु लक्खा , चउवीसं चेव तह सहस्साई । तह पंचसया भणिया, सत्तत्तीसा य अइरित्ता ॥१॥ [ ] इइ नयणविसयमाणं, पुक्खरदीवड्डवासिमणुयाणं ।
पुव्वेण य अवरेण य, पिहिं पिहिं होइ मणुयाणं" ॥२॥ [ ] ततः कथमुक्तस्वरूपं नयनविषयपरिमाणमात्माङ्गलेनापि घटते प्रमाणाङ्गलेनापि व्यभिचारात् । उक्तं च
"लक्खेहि एक्कवीसाइ, साइरेगेहि पुक्खरखंमि । उदए पेच्छंति नरा, सूरं उक्कोसए दिवसे ॥१॥ [वि.भा./३४५] नयणिदियस्स तम्हा, विसयपमाणं जहा सुए भणियं ।
आ उस्सेहपमाणं-गुलेण इक्केण वि न जुत्तं" ॥२॥ [वि.भा./३४६ ] सत्यमेतत् , केवलमिदं विषयपरिमाणं प्रकाश्यविषयं द्रष्टव्यं न तु प्रकाशकविषयम् । ततः प्रकाशकेऽधिकतरमपि विषयपरिमाणं न विरुध्यते इति न कश्चिद्विरोधः । कथमेतदवसीयते ? इति चेत् उच्यते-पूर्वसूरिकृतव्याख्यानात् , सकलमपि हि कालिकश्रुतं पूर्वसूरिकृतव्याख्यानानुसारेणैव व्याख्यानयन्ति महाधियः, न यथाऽक्षरसन्निवेशमात्रम् । पूर्वगतसूत्रार्थसङ्ग्रहपरतया कालिकश्रुतस्य क्वचित् सङ्क्षिप्तस्याप्यर्थस्य महता
१. वि.भा./गा.३४५/३४६ वृत्तौ ।
D:\ratan.pm5\5th proof