________________
श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः]
[२१३ ___ अत्र 'देहपमाणं तं चिय' इति यत्तत् उच्छ्याङ्गुलमेयत्वेनोक्तं तद्देहप्रमाणमात्रमेव, न त्विन्द्रियविषयपरिमाणम् , तस्यात्माङ्गलप्रमेयत्वात् । अथ यदि विषयपरिमाणमिन्द्रियाणामुच्छ्याङ्गुलेन स्यात्ततः को दोष आपद्येत ? उच्यते-पञ्चधनु:शतादिमनुष्याणां विषयव्यवहारव्यवच्छेदः । तथा हि-यद्भरतस्यात्माङ्गुलं तत्किल प्रमाणाङ्गुलम् , तच्च प्रमाणाङ्गुलमुच्छ्रयाङ्गुलसहस्रेण भवति । "उस्सेहंगुलमेगं,हवइ पमाणंगुलंसहस्सगुणं'[ ]इति वचनात् , ततो भरत-सगरादिचक्रवतिनां या अयोध्यादयो नगर्यो ये च स्कन्धावारा आत्माङ्गलेन द्वादशयोजनायामतया सिद्धान्ते प्रसिद्धास्ते उच्छ्याङ्गलप्रमित्या अनेकानि योजनसहस्राणि स्युः, तथा च सति तत्रायुधशालादिषु ताडितभेर्यादिशब्दश्रवणं न सर्वेषामापद्येत 'बारसहिजोअणेहिं, सोयं अहिगिण्हए सई''[ ] इति वचनात् , अथ च समस्तनगरव्यापी समस्तस्कन्धावारव्यापी च विजयढक्कादिशब्द आगमे प्रतिपाद्यते, तत एवमागमे प्रसिद्धः पञ्चधनुःशतादि(प्रमाणानां) मनुष्याणां विषयव्यवहारो व्यवच्छेदं मा प्रापदित्यात्माङ्गलेनेन्द्रियविषयपरिमाणमवसातव्यम् , नोच्छ्याङ्गलेन । तथा चाह भाष्यकृत्
जं तेण पंचधणुसयनरादिविसयववहारे वोच्छेओ।।
पावइ सहस्सगुणियं, जेण पमाणंगुलं तत्तो ॥१॥[वि.भा./३४२ ]
अत्र तस्मादात्माङ्गलेनैवेन्द्रियाणां विषयपरिमाणं नोच्छ्याङ्गलेनेति, यदप्युक्तं प्राक् देहाश्रितानीन्द्रियाणि इति तेषां विषयपरिमाणमुच्छ्याङ्गलेनेति तदप्ययुक्तं, इन्द्रियाणामपि केषाञ्चित् पृथुत्वस्यात्माङ्गलेन मीयमानत्वाभ्युपगमात् , अन्यथा त्रिगव्यूतादिमनुष्याणां रसाद्यभ्यवहारव्यवच्छेद प्रसक्तेः तथा हि-त्रिगव्यूतादीनां मनुष्याणां षडगव्यतादीनां हस्त्यादीनां (च) स्वशरीरानसारितया अतिविशालानि मुखानि जिह्वाश्च, ततो यद्युच्छ्रयाङ्गलेन तेषां क्षुरप्राकारतयोक्तस्याभ्यन्तरनिवृत्त्यात्मकस्य जिह्वेन्द्रियस्याङ्गलपृथक्त्वलक्षणो विस्तारः परिगृह्यते तदाऽत्यल्पतया न तत्सर्वां जिह्वां व्याप्नुयात् , सर्वव्यापित्वाभावे च योऽसौ बाहुल्येन सर्वात्मनाऽपि जिह्वया रसावेदनलक्षणः प्रतिप्राणिप्रसिद्धो व्यवहारः स व्यवच्छेदं यायात् । एवं घ्राणादिविषयोऽपि यथायोगं गन्धादिव्यवहारव्यवच्छेदो भावनीयः, तस्मादात्माङ्गुलेन जिह्वादीनां पृथुत्वमवसातव्यम् , नोच्छ्याङ्गुलेन । आह च भाष्यकृत्
इंदियमाणे वि तयं भणयिज्जं जं तिगाउयाईणं । जिब्भिदियाइमाणं, संववहारे विरुज्झेज्जा ॥१॥[वि.भा./३४३]
D:\ratan.pm5\5th proof