________________
[ श्रीविचाररत्नाकरः
नन्विदमुक्तं योग्यदेशावस्थितमेव रूपं पश्यति नायोग्यदेशावस्थितम्, तत्र कियान् चक्षुषो (श्रोत्रादीनां ) विषयः ?, कियतो देशादागतं श्रोत्रादि शब्दादिकं गृह्णाति ? उच्यते—श्रोत्रं तावत् शब्दं जघन्यतोऽङ्गुलसङ्ख्येयभागमात्रदेशात् उत्कर्षतस्तु द्वादशभ्यो योजनेभ्यः, चक्षुरिन्द्रियमपि जघन्यतोऽङ्गुलसङ्ख्येयभागावस्थितं पश्यति उत्कर्षतस्तु सातिरेकयोजनशतसहस्रव्यवस्थितम्, घ्राणरसनस्पर्शनानि तु जघन्येनाङ्गुलासङ्ख्येयभागमात्राद्देशादागतं गन्धादि गृह्णन्ति उत्कर्षतस्तु नवभ्यो योजनेभ्यः ।
२]
नन्वङ्गुलं त्रिधा भवति तद्यथा— आत्माङ्गुलं उच्छ्रयाङ्गुलं प्रमाणाङ्गुलं च तत्र१" जेणं जया मणूसा, तेसिं जं होइ माणरूवं तु ।
तं भणियमिहायंगुलमणिययमाणं पुण इमं तु ॥१॥ इत्येवं रूपमात्माङ्गुलम् परमाणू तसरेणू, रहरेणू अग्गयं च वालस्स ।
लिक्खा जूया य जवो, अट्ठगुणविवड्ढिया कमसो ॥२॥ इत्यादिरूपसमुच्छ्रयाङ्गुलम् । उस्सेहंगुलमेगं, हवइ पमाणंगुलं सहस्सगुणं ।
तं चेव दुगुणियं, खलु वीरस्सायंगुलं भणियं" ॥३॥ इत्येवं लक्षणं प्रमाणाङ्गुलम् । तत्रात्माङ्गुलेन प्रमीयते तत्तत्काले वापीकूपादिकं वस्तु, उच्छ्रयाङ्गुलेन नरतिर्यग्देवनैरयिकशरीराणि, प्रमाणाङ्गुलेन नगपृथिवीविमानानि । उक्तं च२" आयंगुलेण वत्थं, उस्सेहपमाणतो मिणसु देहं ।
नगपुढविविमाणाइं, मिणसु पमाणंगुलेणं तु ॥ १॥ [ प्र.सा./१३९७] तत्रेदमिन्द्रियविषयपरिमाणं किमात्माङ्गुलेन प्रतिपत्तव्यमाहोस्विदुच्छ्रयाङ्गुलेन ? उच्यते— आत्माङ्गुलेन । तथा चाह—चक्षुरिन्द्रियविषयपरिमाणचिन्तायां भाष्यकृत्— अप्पत्तकारि नयणं, मणो य नयणस्स विसयपरिमाणं । आयंगुलेण लक्खं, अइरित्तं जोअणाणं तु ॥ १ ॥ [वि.भा./३४०]
ननु देहप्रमाणमुच्छ्रयाङ्गुलेन देहाश्रितानि चेन्द्रियाणि, ततस्तेषां विषयपरिमाणमप्युच्छ्रयाङ्गुलेन वक्तुमुचितम् कथमुच्यते आत्माङ्गुलेन ? नैष दोष:, यद्यपि हि नाम देहाश्रितानीन्द्रियाणि तथाऽपि तेषां विषयपरिमाणमात्माङ्गुलेन देहान्यत्वाद्विषयपरिमाणस्य, तथा चामुमेवार्थमाक्षेपपुरस्सरं भाष्यकृदाह
नणु भमियमुस्सयंगुलपमाणतो जीवदेहमाणाइं ।
देहपमाणं तं चिय, न उ इंदियिसयपरिमाणं ॥१॥ [ वि.भा./३४१ ]
१. वि. भा. / ३४० वृ. मध्ये । २. वि. भा. / ३४०वृ. मध्ये ।
D:\ratan.pm5\5th proof