________________
श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः]
[२११ तूलकादेः परमार्थतः पृथिव्यादिस्थानमाकाशे तूपलम्भो वायुना सञ्चार्यमाणत्वात् , यद्येवं तहि शब्दस्यापि परमार्थतः स्थानं श्रोत्रादि, यत्पुनराकाशेऽवस्थानं तद्वायुना सञ्चार्यमाणत्वात् । तथा हि-यतो यतो वायुः सञ्चरति ततस्ततः शब्दोऽपि गच्छति, वातप्रतिकूलं शब्दस्याश्रवणात् । उक्तं च प्रज्ञाकरगुप्तेन-"यथा वा प्रेर्यते तूलमाकाशे मातारिश्वना तथा शब्दोऽपि किं वायोः, प्रतीपः कोऽपि शब्दवित्" ॥ [ ] तन्नाकाशगुणः शब्दः, किन्तु पुद्गलमय इति । तथा रूप्यत इति रूपम् तत् रूपं पुनः पश्यतिगृह्णात्युपलम्भत इति यावत् । अस्पृष्टं-अनालिङ्गितं गन्धादिवन्न सम्बद्धमित्यर्थः । तुशब्द एवकारार्थः स चावधारणे, रूपं पुनः पश्यन्नस्पृष्टमेव, चक्षुषोऽप्राप्यकारित्वात् , एतच्च प्रागेव भावितम् । पुनःशब्दो विशेषणार्थः, स चैतद्विशिनष्टि अस्पृष्टमपि योग्यदेशावस्थितं न पुनरयोग्यदेशावस्थितममरलोकादि । गन्ध्यते आघ्रायत इति गन्धस्तम् , 'रस' आस्वादने, रस्यतेऽनेनेति रसस्तञ्च, स्पृश्यत इति स्पर्शस्तञ्च, चशब्दौ पूरणार्थौ । बद्धस्पृष्टमिति बद्धं-आश्लिष्टं तोयवदात्मप्रदेशैरात्मीकृतमित्यर्थः, स्पृष्टं पूर्ववत् , प्राकृतशैल्या चेत्थमुपन्यासो ‘बद्धपुटुं' इति । परमार्थतस्तु स्पृष्टं च तद्वद्धं च स्पृष्टबद्धमिति द्रष्टव्यम् । आह-यद्बद्धं गन्धादि तत्स्पृष्टं भवत्येव, अस्पृष्टस्य सम्बन्धायोगात् , तत्र स्पृष्टशब्दोच्चारणं गतार्थत्वादनर्थमिति नैष दोषः, शास्त्रारम्भस्य सर्वश्रोतृसाधारणत्वात् । त्रिविधा हि श्रोतार:-केचिदुद्घटितज्ञाः केचिन्मध्यमबुद्धयः तथाऽन्ये प्रपञ्चितज्ञाः, तत्र प्रपञ्चितानामनुग्रहाय गम्यमानस्याप्यभिधानमदोषायेति । प्रकृतभावार्थस्त्वयम्-गन्धद्रव्याणि स्वल्पानि स्थूलानि तदन्यवासनकानि घ्राणादीनि चेन्द्रियाणि श्रोत्रेन्द्रियापेक्षया अपटूनि, ततो घ्राणेन्द्रियादिगणो गन्धादि आलिङ्गितानन्तरमात्मप्रदेशैरात्मीकृतं गृह्णाति नान्यथेति, एवं व्यागृणीयात् प्रतिपादयेत् प्रज्ञापकः स्वशिष्येभ्यः । एतदेव व्याख्यानं भाष्यकारोऽप्याह
"पुढे रेणुं व तणुंमि, बद्धमप्पीकयं पएसेहिं । छिक्काई चिय गिण्हेइ, सद्ददव्वाइ जं ताई ॥१॥[वि.भा./३३७] बहुसुहुमभावुगाई, जं पडुयरं च सोयविन्नाणं । गंधादियदव्वाइं, विवरीयाइं जतो ताई ॥२॥[वि.भा./३३८ ] फरिसाणंतरमत्तप्पएसमीसीकयाइ धिप्पंति । पडुयरविण्णाणाइं, जं च न घाणाइ करणाइं" ॥३॥[वि.भा./३३९ ]
D:\ratan.pm5\5th proof