________________
२०]
[श्रीविचाररत्नाकरः चाण्डालोऽवतिष्ठते तदा तद्गतकेतकीदलादिगन्धपुद्गलाः श्रोत्रियादिनासिकास्वपि प्रविशन्ति, ततस्तत्रापि चाण्डालस्पर्शदोषः प्राप्नोतीति तद्दोषभयान्नासिकेन्द्रियमप्राप्यकारि प्रतिपत्तव्यम् , न चैतद्भवतोऽप्यागमे प्रतिपाद्यते ततो बालिशजल्पितमिति कृतं प्रसङ्गेन । केचित् पुनः श्रोत्रेन्द्रियस्य प्राप्यकारिताभ्युपगच्छन्तः शब्दस्याम्बरगुणत्वं प्रतिपन्नाः तदश्लीलमाकाशगुणतायां शब्दस्यामूर्त्तत्वप्रसक्तेः, यो हि तद्गुणः स तत्समानधर्मा यथा ज्ञानमात्मनः, तथा हि-अमूर्त आत्मा ततस्तद्गुणो ज्ञानमप्यमूर्तमेव, एवं शब्दोऽपि यद्याकाशगुणस्तर्हि आकाशस्यामूर्त्तत्च्छब्दस्यापि तद्गुणत्वेनामूर्त्तता भवेत् , न चासौ युक्तिसङ्गता तल्लक्षणायोगात् , मूर्तिविरहो ह्यमूर्त्तता, न च शब्दानां मूर्तिविरहः स्पर्शवत्त्वात् । तथा हि-स्पर्शवन्तः शब्दास्तत्सम्पर्के उपघातदर्शनाल्लोष्टवत् , न चायमसिद्धो हेतः, यतो दृश्यते सद्यो जातबालकानां कर्णदेशाभ्यर्णगाढास्फालितझल्लरीझात्कारश्रवणतः श्रवणस्फोटः, न चेत्थमुपघातकृत्त्वमस्पर्शवत्वे सम्भवति यथा हि विहायसः, ततो विपक्षे गमनासम्भवान्नैकान्तिकोऽपि अतश्च स्पर्शवन्तः शब्दाः तैरभिघाते गिरिगह्वरभित्यादिषु शब्दोत्थानाल्लोष्टवत् , अयमपि हेतुरुभयोरपि सिद्धः । तथा हि-श्रूयन्ते तीव्रप्रयत्नोच्चारितशब्दाभिघाते गिरिगह्वरादिषु प्रतिशब्दोः प्रतिदिक्, ततः स्पर्शवत्वान्मूर्ती एव शब्दाः, “रूपस्पर्शादिसन्निवेशो मूर्तिः" [ ] इति वचनात् , ततः कथमिवाकाशगुणत्वं शब्दानामुपपत्तिमत् । अपि च तदाकाशमेकनमेकं वा, यद्येकं तर्हि योजनलक्षादपि श्रूयेत् आकाशस्यैकत्वेन शब्दस्य तद्गुणतया दूरासन्नादिभेदाभावात् , अथानेकमेवं सति वदनदेशे एव स विद्यते इति कथं भिन्नदेशवर्तिभिः श्रूयते, वदनदेशाकाशगुणतया तस्य श्रोत्रेन्द्रियाकाशसम्बन्धाभावात् । अथ च श्रोत्रेन्द्रियाकाशसम्बद्धतया तच्छ्रवणमभ्युपगम्यते तन्न श्रेयानाकाशगुणत्वाभ्युपगमः । नन्वाकाशगुणत्वमन्तरेण शब्दस्यावस्थानमेव नोपपद्यते, अवश्यं हि पदार्थेन स्थितिमता भवितव्यं, तत्र रूपस्पर्शरसगन्धानां पृथिव्यादिमहाभूतचतुष्टयमाश्रयः शब्दस्य त्वाकाशमिति तदयुक्तम् , एवं सति पृथिव्यादीनामप्याकाशाश्रित्वेनाकाशगुणत्वप्रसक्तेः । अथ नाश्रयणमानं तद्गुणत्वनिबन्धनं किन्तु समवायः, स चास्ति शब्दस्याकाशे न तु पृथिव्यादीनामिति । ननु कोऽयं समवायो नाम एकलोलीभावेनावस्थानम् , यथा पृथिव्यादे रूपादिभिरिति चेत् ? न तहि शब्दस्याकाशगुणत्वं आकाशेन सहास्यैकलोलीभावेनाप्रतिपत्तेः । अथाकाशे उपलभ्यमानत्वात्तद्गुणता शब्दस्य तर्हि तूलकादेरप्याकाशे उपलभ्यामानत्वात्तद्गुणता प्राप्नोति, अथ
D:\ratan.pm5\5th proof