________________
श्रीविचाररत्नाकरे मध्यभागे द्वादशस्तरङ्गः]
[२०९ भेदप्रतीतिर्भवतुमर्हति ? । अथ च प्रतीयते शब्दो दूरासन्नादितया, तथा च लोके वक्तार: श्रूयते कस्यापि दूरे शब्द इति । अन्यच्च यदि प्राप्तः शब्दो गृह्यते श्रोत्रेन्द्रियेण तर्हि चाण्डालोक्तोऽपि शब्दः श्रोत्रेन्द्रियसंस्पृष्टो गृह्यते, इति श्रोत्रस्य चाण्डालस्पर्शदोषः, तन्न श्रेयसी श्रोत्रस्य प्राप्तकारिता, तदेतन्महामोहमलीमसमानसभाषितम् । यतो यद्यपि शब्दः प्राप्तो गृह्यते श्रोत्रेन्द्रियेण तथाऽपि यत उत्थितः शब्दस्तस्य दूरासन्नत्वे शब्देऽपि स्वान्यवैचित्र्यसम्भवाद्दूरासन्नादिभेदप्रतीतिरुल्लसिष्यति, तथा हि-दूरादागतः शब्दः क्षीणशक्तिकत्वात् खिन्न इव लक्ष्यते अस्पष्टरूपो वा, ततो लोके व्यवहारो दूरे शब्दः श्रूयते इति, अस्य वाक्यस्यायं भावार्थ:-दूरादागतः शब्दः श्रूयते, स्यादेतदेवमतिप्रसङ्गः प्राप्नोति, तथा हि-एतदपि वक्तुं शक्यते दूरे रूपमुपलभ्यते, किमुक्तं भवति ? दूरादागतं रूपमुलभ्यते, ततश्चक्षुरपि प्राप्यकारीति प्राप्नोति न चैतदिष्यते, तस्मान्न तत्समीचीनमिति तदयुक्तं, यत इह चक्षुषो रूपकृतानुग्रहोपघातौ नोपलभ्येते, श्रोत्रेन्द्रियस्य तु शब्दकृतोपघात उपलम्भगोचरोऽस्ति, यथोक्तं प्राक्, ततो नातिप्रसङ्गोपादानं युक्तिमत् । अन्यच्च प्रत्यासन्नोऽपि जनः पवनस्य प्रतिकूलमवतिष्ठमानः शब्दं न शृणोति, पवनवर्त्मनि पुनरवतिष्ठमानो दूरदेशस्थितोऽपि शृणोति, तथा च लोको वक्तारो न वयं प्रत्यासन्ना अपि त्वदीयं शब्दं शृणुमः पवनस्य प्रतिकूलमवस्थानात् , यदि पुनरप्राप्तमेव शब्दं रूपमिव जना प्रमिणयुस्तहि पवनस्य प्रतिकलमप्यवतिष्ठमाना रूपमिव शब्दं यथावस्थितं परिच्छिन्द्युः न च परिच्छिन्दन्ति, तस्मात् प्राप्ता एव शब्दपरमाणवः श्रोत्रेन्द्रियेण परिगृह्यन्ते इत्यवश्यमभ्युपगन्तव्यम् , अन्यथा क्रमग्रहणानुपपत्तेः । तथा हियद्यप्राप्ता एव शब्दा गृह्यन्ते तर्हि तेषां योग्यदेशावस्थितानां समीपस्थैर्दूरस्थैश्च ग्रहणमेककालं भवेत् यथा चक्षुषा योग्यदेशावस्थितानां घटपटादीनां क्रमेण च ग्रहणमनुभूयते पूर्वं समीपस्थैरिति । यदपि चोक्तं-चाण्डालस्पर्शदोष इति तदपि चेतनाविकलपुरुषभाषितमिवासमीचीनम् , स्पर्शास्पर्शव्यवस्था हि लोककाल्पनिकी, न पारमार्थिकी । तथा हि यामेव भुवमग्रे चाण्डालः स्पृशन् याति तामेव पृष्ठतः श्रोत्रियोऽपि तथा यामेव नावमारोहति चाण्डालस्तामेवारोहति श्रोत्रियोऽपि, तथा स एव मारुतश्चाण्डालं स्पृष्ट्वा श्रोत्रियमपि स्पृशति, न च तत्र लोके स्पर्शदोषव्यवस्था, तथा शब्दपुद्गलसंस्पर्शेऽपि न भवतीति न कश्चिद्दोषः । अन्यच्च यदा केतकीदलनिचयं शतपत्रादिपुष्पनिचयं वा शिरसि निबद्ध्य वपुषि वा मृगमदचन्दनाद्यवलेपनमारचय्य विपणिवीथीमागत्य
D:\ratan.pm5\5th proof