________________
श्रीविचाररत्नाकरे मध्यभागे
॥ द्वादशस्तरङ्गः ॥ मिथ्यात्वविषविसंस्थूलनरनिकरविकारसदगदङ्कारम् । विधिना श्रीजिनवचनं ध्येयं धीमद्भिरुरुचनम् ॥१॥
अथ श्रीमूलसूत्रविचारा लिख्यन्त-तत्र तावदावश्यकविचाराः, तत्र च प्रथम युक्तिरसिकहृदयप्रमोदाय युक्तिशाली इन्द्रियविषयविचारो लिख्यते
पुढे सुणेइ सदं, रूवं पुण पासई अपुढे तु ।
गंधं रसं च फासं च बद्धपुढे वियागरे ॥६॥ वृत्तिर्यथा-ननु व्यञ्जनावग्रहप्ररूपणद्वारेणैव तथा श्रोत्रेन्द्रियादीनां प्राप्ताप्राप्तविषयता प्राक् प्रतिपादिता, ततः किमर्थमेष पुनः प्रयासः इति ? उच्यते-तत्र प्रक्रमे गाथाव्याख्यानद्वारेण प्रतिपादिता, सम्प्रति तु सूत्रतः प्रतिपाद्यत इत्यदोषः, श्रोत्रेन्द्रियं कर्तृ, शब्दं कर्मतापन्नं, शृणोति-गृह्णाति परिच्छिन्नतीति भावः, स्पृष्टं तरौ वायुवदालिङ्गितमात्रम् , किमुक्तं भवति? शब्दद्रव्याणि सकललोकव्यापीनि सूक्ष्माण्यत एव द्रव्येन्द्रियस्यान्तरपि मनाक् प्रविशन्ति, तदन्यद्रव्यवासस्वभावानि च, श्रोत्रेन्द्रियं शेषेन्द्रियगणापेक्षया प्रायः पटुतरं ततः स्पृष्टमात्रमेव शब्दद्रव्यसमूहं गृह्णाति, एतेन यदाहुः सुगतमतानुसारिणः श्रोत्रमप्यप्राप्तकारि, तथा च तद्ग्रन्थ:-"चक्षुःश्रोत्रमनोऽप्राप्यकारी"[ ] इति । ते प्रतिक्षिप्ता द्रष्टव्याः, तथा हि-अप्राप्यकारि तत्प्रतिपत्तुं शक्यते यस्य विषयकृतानुग्रहोपघाताभावः, यथा चक्षुर्मनसी, श्रोत्रस्य च शब्दकृत उपघातो दृश्यते, सद्यो जातबालस्य समीपे महाप्रयत्नताडितझल्लरीझात्कारश्रवणतः, यद्वा विद्युत्प्रपाते तत्प्रत्यासन्नदेशवर्तिनां निर्घोषश्रवणतो बधिरीभावदर्शनात् । शब्दपरमाणवो हि उत्पत्तिदेशादारभ्य 'जलतरङ्ग'न्यायेन प्रसरमभिगृह्णानाः श्रोत्रेन्द्रियमागच्छन्ति, ततः सम्भवत्युपघातः । ननु यदि श्रोत्रेन्द्रियं प्राप्तमेव शब्दं गृह्णाति नाप्राप्तं तर्हि यथा गन्धादौ गृह्यमाणे न तत्र दूरासन्नादितया भेदप्रतीतिः, एवं शब्देऽपि न स्यात् , प्राप्तो हि विषयः परिच्छिद्यमानः सर्वोऽपि सन्निहित एव, तत्कथं दूरासन्नादि
१. आव.नि./५ गा.।