________________
श्रीविचाररत्नाकरे मध्यभागे एकादशस्तरङ्गः]
[२०७ मामिच्छेदिति, सा भगवती निविण्णकामभोगा अन्यदा तदभिप्रायं ज्ञात्वा मधुघृतसंयुता पेया पीता, तस्मिन्नागते तया मदनफलाघ्राणेन वान्ता । उक्तं च-"धिगत्थु ते जसोकामी" [द.वै.२१७] इत्यादि । इति गच्छाचारप्रकीर्णकवृत्तौ । तथैव च तिलकाचार्यकृतदशवैकालिकवृत्तावपि॥
"गृही चतुर्वर्षशतीं, छद्मस्थो वत्सरं स्थितः । पञ्चवर्षशतीमासीद्रथनेमिस्तु केवली ॥१८५॥ राजीमत्या अपि तथा, कौमारं छद्मवासितम् । केवलित्वं च सर्वोऽपि, पर्यायो रथनेमिवत् ॥१८६॥ नेमेवर्षशतेनाग्रे, ययौ राजीमती शिवम् । यद्रक्तो माममुचन्नेमिः, सिद्धिं तां किल वीक्षितुम् ॥१८७॥ माहेन्द्रेऽगाच्छिवादेवी, समुद्रविजयोऽपि च ।
दशार्दा अपरेऽप्यष्टौ, स्वर्गलक्ष्मीभुजोऽभवत्" ॥१८८॥ नेमेस्तु त्रीणि शतानि गृहस्थपर्याय इत्यत्रापि नेमितो रथनेमिज्येष्ठभ्रातैव । नेमिचरित्रे तु
"इतश्च नेमिरनुजो, रथनेमिः स्मरातुरः ।
जज्ञे राजीमती पश्यन्निद्रियाणां वशंवदः" ॥२५८॥॥४०।। तथा "असुरादयो यावद्वनस्पतिकायिका अनन्तरमुद्धृतास्तीर्थं न लभन्ते, अन्तःक्रियां पुनः कुर्युः" । इति प्रज्ञापना २० पदवृत्तौ । वसुदेवचरिते तु “नागकुमारेभ्योऽप्युद्धृतोऽनन्तरमैरवतक्षेत्रेऽस्यामवसर्पिण्यां चतुर्विंशतितमस्तीर्थकर उपदर्शितः" । तदत्र तत्त्वं केवलिनो विदन्तीति ॥४१॥
___ एवं भूयांसि अन्यान्यपि मतान्तराणि शास्त्रे दृश्यन्ते, तेन धर्मार्थिना कुत्रापि कदाग्रहो न कार्यः । पुरातनैर्महापुरुषैर्बहुश्रुतैर्यदि किमपि नाहत्यनिर्णीतं तर्हि आधुनिकैर्मन्दप्रज्ञैः किमिव निर्णेतुं शक्यम् ?, ततो यदा यो ग्रन्थो वाच्यते तदा तद्ग्रन्थस्थमुच्यते, इति जगद्गुरुश्रीहीरविजयसूरीणामनुशिष्टिरिति ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे मतान्तरसमुच्चयनामा एकादश आवर्त्तः समाप्तः॥११॥
D:\ratan.pm5\5th proof