________________
२६]
[श्रीविचाररत्नाकरः ___ "अरिडुनेमिस्स अंते धम्मं सोऊण पव्वइओ, गओ य भगवया सद्धि, धिज्जाइयस्स अपत्तियं जायं, कालेण पुण भगवया सद्धिं बारवइमागओ, मसाणे य पडिमं ठिओ, दिट्ठो य धिज्जाइएण, ततो कुविएण कुडयंगे, मत्थए दाऊण अंगाराण से भरिओ तस्स य सम्म अहियासेमाणस्स केवलं समुप्पण्णं" । इति आवश्यकबृहद्वृत्तौ १०७ पत्रे ।। ऋषिमण्डलपञ्चत्रिंशत्तमगाथायां तु"वंदामि नेमिसीसं, वयदिणगहिएगराइवरपडिमं ।
सोमिलकयउवसग्गं, गयसुकुमालं सिवं पत्तं" ॥३५॥ "तद्भावमतिविशुद्धं, ज्ञात्वा श्रीधर्मघोषसूरीन्द्राः। सम्प्राप्तास्तस्य पटा-वासे चरणाचरणचतुराः ॥९॥ स च तेषां घृतममितं, निःशेषैर्दूषणैः परित्यक्तम् । प्रतिलाभयति प्रमदो-त्पन्नसमग्राङ्गोमाञ्चः" ॥१०॥ इति ।
श्रीऋषिमण्डलाष्टादशसहस्त्यां वृत्तौ प्रथमगाथायाम् । हैमऋषभचरित्रे तु"अस्यानुपदमेवाथ, साधुद्वितयमागमत् । तदर्ह चान्नपानादि, दैवादैक्षन्न किञ्चन ॥३३॥ इतस्ततोऽन्वेषयंश्च, सार्थवाहः स्वयं ततः ।
ईक्षाञ्चक्रे घृतं स्त्यानं, निजाशयमिवालम्" ॥३४॥ इति ॥३६॥
तथा वसुदेवहिण्डौ पुष्पमालावृत्तौ च वसुदेवपूर्वभवे चारित्रपर्याय: ५५००० वर्षाणि । हैमनेमिचरित्रे तु १२००० वर्षाणि ॥३७॥
तथा वसुदेवहिण्डौ वसुदेवपूर्वभवमातुलस्य कन्यात्रयम् । हैमनेमिचरित्रे तु कन्यासप्तकमिति ॥३८॥
नेमिचरित्रे वन्दारुवृत्तौ च द्वारिकायां नेमिनाथे सति चतुर्मासके वन्दनाय नागतः कृष्णः । भवभावनावृत्तौ तु “धम्मत्थं मोत्तूण'' इत्याद्यक्षरैर्धर्मार्थं विना नियमो गृहीतोऽस्तीति ॥३९॥
तथा यदा किल नेमिः प्रव्रजितस्तदा रथनेमिज्येष्ठभ्राता राजीमतीमुपचरति, सा
D:\ratan.pm5\5th proof