________________
श्रीविचाररत्नाकरे मध्यभागे एकादशस्तरङ्गः]
[२०५ अनन्तनाथस्येह चतुःपञ्चाशद्गणा गणधराश्चोक्ताः । आवश्यके तु पञ्चाशदुक्तास्तदिदं मतान्तरमिति समवायाङ्गवृत्तौ । विमलस्येह षट्पञ्चाशद्गणा गणधराश्चोक्ताः । आवश्यके तु सप्तपञ्चाशत्तदिदं मतान्तरमित्यपि समवायाङ्गवृत्तौ ॥३१॥
"अणत्तरोववातियदेवा णं भंते ! केवतियं खेत्तं ओहिणा जाणंति ? पासंति ? गोयमा ! संभिण्णलोगनालिं ओहिणा जाणंति पासंति" इति । वृत्तिर्यथा'संभिणलोगनालिं' इति परिपूर्णचतुर्दशरज्ज्वात्मिकां लोकनाडीम् । इति प्रज्ञापना ३३ पदे सावचूरौ ४८४ पत्रे ॥
सङ्ग्रहण्यां तु "छढेि छग्गेविज्जा, सत्तमियरे अणुत्तरसुराओ।
किंचूणलोगनालिं, पासंति अणुत्तरा देवा" ॥१॥॥३२॥
तथा “छव्वरिसो पव्वइओ, निग्गंथो रोइऊण जिणवयणं । सिद्धं विहूअरयमलं, अइमुत्तरिसिं नमसामि" । इति श्रीऋषिमण्डले ॥ अस्यावचूर्णौ तु श्रीवीरान्तिके प्रव्रज्याष्टवार्षिकोऽतिमुक्तकर्षिः शिवं प्राप्तः । लघुवृत्तौ तु चतुर्वर्षवया अपि प्रवया इव व्रतस्वीकारादिति ॥३३॥
आवश्यकलघुवृत्तौ तिलकाचार्येण चतुर्विंशतिजिनप्रतिमा भरतः स्वयं प्रतिष्ठितवान् , इति प्रतिपादितमस्ति तत्स्वमतिकल्पितमेव, आवश्यकचूर्णी आवश्यकबृहद्वत्तौ च तथाऽदर्शनात् । प्रत्युत शत्रुञ्जयमाहात्म्ये षष्ठे सर्गे भरतेन यतिभिः प्रतिष्ठा कारितेति वर्त्तते । यथा
"एवं सिंहनिषद्याख्यं, प्रासादं विधिवन्नृपः । काराप्याथ यतिव्रातैः, प्रत्यतिष्ठपदुत्सवात् ॥१॥ ततः शुचिः श्वेतवासाः, प्रासादन्तर्विवेश सः।
कृत्वा नैषेधिकी चक्री, त्रिः प्रदक्षिणयच्च तम्" ॥२॥ इत्यादि । तथा पञ्चमसर्गेऽपि
"ततोऽर्हद्भक्तिभरितो, भरतो गणधारिभिः ।
तत्रोपहारैर्विविधैः, प्रतिष्ठामप्यचीकरत्" ॥१॥ तथैव च श्रीहैमऋषभचरित्रेऽपि
"इति चैत्यं विनिर्माप्य, प्रतिष्ठाप्य च चक्रभृत् । श्वेतांशुकधरस्तत्राविशन्मेघ इवोडुपः" ॥१॥॥३४।।
D:\ratan.pm5\5th proof