________________
२०४]
[श्रीविचाररत्नाकरः तथा पद्मचरित्रे सीता जनकराजपुत्री गीयते । वसुदेवहिंडि प्रथमखण्डे तु मन्दोदरीरावणयोः ॥२६॥
हेमाचार्यकृतनेमिचरित्रशत्रुञ्जयमाहात्म्यशीलतरङ्गिण्यादिग्रन्थेषु द्रौपद्याः सुकुमालिकाभवे अष्टमासिकी संलेखना सौधर्मदेवलोकगमनं च । ज्ञातायां तु अर्द्धमासिकी संलेखना ईशानदेवलोकगमनं च ॥२७।।
कल्पे वीरस्य दीक्षापर्यायः ४२ वर्षाणि । समवायाने तु साधिकानि ॥२८॥ तथा-"तावदावसथद्वारे, राजसूनोरुपायने ।
केनचिच्चाक्रिरे कुम्भाः, नवेक्षुरससम्भृताः ॥२६१॥ श्रेयांसो जातिस्मरणाद्भिक्षादोषोज्झितं रसम् । मत्वा कल्प्यममुं स्वामिन् !, गृहाणेत्यभ्यधात् प्रभुम् ॥२६२॥ प्रभुणाऽप्यञ्जलीकृत्य, पाणिपात्रे पुरोधृते । स रसं कलशश्रेण्याश्चिक्षेपेक्षुसमुद्भवम्" ॥२६३॥
इत्यमरकविकृतपद्मानन्दकाव्ये त्रयोदशे सर्गे। हैमऋषभचरित्रेऽपि"अत्रान्तरे कुमारस्य, प्राभृते केनचिन्मुदा। नवेक्षुरससम्पूर्णाः, ढौकयाञ्चाक्रिरे घटाः ॥१०॥ ततो विज्ञातनिर्दोषभिक्षादानविधिः स तु । गृह्यतां कल्पनीयाऽयं, रस इत्यवदद्विभुम् ॥११॥ प्रभुणाऽप्यञ्जलीकृत्य, पाणिपात्रमधारयन् ।।
उत्क्षिप्योत्क्षिप्य सोऽपीक्षुरसकुम्भानलोठयत्" ॥१२॥ आवश्यकचूर्णी तु-"सयं चेव खोयरसघडगं गहाय दव्वसुद्धेणं दायगसुद्धेणं पडिग्गाहसुद्धेणं तिविहेणं तिगरणसुद्धेणं दाणेणं पडिलाभेस्सामि" त्ति ॥२९॥
चत्तारि पंच जोयणसयाइं गन्धो य मणुअलोअस्स । उ8 वच्चइ जेणं, न हु देवा तेण आवंति" । इति सङ्ग्रहण्याम् । उपदेशमालाकर्णिकावृत्तौ तु"उर्ध्वगत्या शतान्यष्टौ, सहस्रमपि कर्हिचित् । मानां याति दुर्गन्धस्तेनेहायान्ति नामराः" ॥४१॥॥३०॥
D:\ratan.pm5\5th proof