________________
श्रीविचाररत्नाकरे मध्यभागे एकादशस्तरङ्गः]
[२०३ इमाओ चत्तारि महाविज्जाओ तंजहा-गोरी १ गंधारी २ रोहिणी ३ पण्णत्ती"। आवश्यकचूर्णावपि-"अडयालीसं विज्जासहस्साइं देमि" । अष्टचत्वारिंशद्विद्यासहस्राणि तयोरदात् । उपदेशमालाकर्णिकायामपि
"प्रज्ञप्तिमुख्याः प्रीतेन, फणीन्द्रेण तयोर्ददे ।
पाठसंसिद्धविद्याष्टचत्वारिंशत्सहस्त्र्यथ" ॥१॥ उपदेशसित्तरीवृत्तौ तु त्रयोदशोपदेशे
"अवादीद्धरणो नाहं, पथिकः किं तु नागराट् । राज्यादिदाता याचेथां, तावां यद्विलोक्यते ॥२०॥ त्रैलोक्यं यच्छसि त्वं चेन्न कार्यं तदपि त्वया। यदि दास्यति तद्दाता, स्वाम्येव खलु नापरः ॥२१॥ भक्तिस्थैर्यामिति ज्ञात्वाऽवातरत् स्वामिनो मुखे। तुष्टो भवद्भ्यामेषोऽहं, साम्राज्यं गृह्यतामिदम् ॥२२॥ इति प्रोच्य स वैताढ्याधिपत्यं प्रददे तयोः।।
अष्टनषट्सहस्राणि, प्रौढविद्याश्च विश्रुताः" ॥२३॥ वृद्धशत्रुञ्जयमाहात्म्यतृतीयसर्गे तु
"सेवावहे न भरतं, प्रतिज्ञायेति तौ ततः ।
असेवितां विभुं पार्श्वद्वये कृष्टासिधारिणौ ॥५८०॥ पातालविभुरन्येधुर्धरणेन्द्रः परीक्षणात् । अत्यन्तं तातपादेषु, तावज्ञासीत् सुभक्तिकौ ॥५८१॥ विद्याः षोडशसहस्त्राण्यदाद्वैताढ्यपर्वते।
दक्षिणोत्तरश्रेण्याश्च, राज्यं ताभ्यां मुदा सह" ॥५८२॥ अत्र केचिद्विद्यानामष्टत्वारिंशत्सहस्राणि, केचित् षोडश सहस्राणि, केचिद्धरणेन्द्रेण स्वयं विद्याः प्रदत्ताः, केचिच्च भगवन्मुखेऽवतीर्येति मतद्वयमवसेयम् ॥२३॥ २४॥
हरिभद्रसूरिकृतदशवकालिकवृत्तौ हैमचरित्रे नवपदप्रकरणवृत्तौ च चक्रिण: सप्तम्यामेव गच्छन्तीत्युक्तम् । भगवतीद्वादशशतकनवमोद्देशकाभिप्रायेण तु सप्तस्वपि नरकेषु गच्छन्तीति ।।२५।।
D:\ratan.pm5\5th proof