________________
[ श्रीविचाररत्नाकरः इत्यत्र त्रयोविंशोत्तराध्ययनतृतीयगाथायां केशीगणधरस्त्रिज्ञानी। राजप्रश्न्यां तु "जेणेव सावत्थी णगरी कोट्ठए चेइए केशीकुमारसमणे पंचहिं अणगारसएहिं संपरिवुडे चउनाणी"। इत्यादि । अत्र तु चतुर्ज्ञानी ॥९॥
"चेडयकोणियजुज्झे, चुलसीछन्नवइलक्खमणुयाणं । रहमुसलंमि य नेया, महासिलाकंटए चेव ॥१॥ वरुणो सोहम्मंमि य, तम्मित्तो अ मणूसगईए ।
नवलक्खमच्छउअरे, सेसा पुण तिरियनरएसु" ॥२॥ तथा श्राद्धप्रतिक्रमणवृत्तावपि-नवलक्षा मत्स्यगर्भे उत्पन्नाः । भगवतीसप्तमशतकनवमोद्देशके तु “तत्थ णं दससहस्सा उ एगाए मच्छियाए कुच्छिसि उववण्णा " इति ॥१०॥ 'सत्तसु खित्तजवियणा, अन्नुन्नकया वि पहरणेहि विणा ।
पहरणकया वि पंचसु, तिसु परमाहम्मियकया वि" ॥१॥ इति सङ्घयणिसूत्रे । हैमत्रिषष्टिशलाकापुरुषचरिते सप्तमपर्वणि तु
"सिंहादिरूपैविकृतैस्तत्र शम्बूक-रावणौ । लक्ष्मणेन समं क्रुद्धौ, युध्यमानौ ददर्श सः ॥४६॥ नैवं वो युध्यमानानां, दुःखं भावीति वादिनः । परमाधार्मिकाः क्रुद्धा, अग्निकुण्डेषु तान्न्यधुः ॥४७॥ दह्यमानास्त्रयोऽप्युच्चैः, रटन्तो गलिताङ्गकाः ।
ततः कृष्ट्वा तप्ततैलकुम्भ्यां निदधिरे बलात्" ॥४८॥ अत्र चतुर्थ्यामपि परमाधार्मिककृता पीडोक्तेति ॥११॥ तथा-"सहसारंतियदेवा, नारयनेहेण जंति तइयभविं।
निज्जति अच्चुयंता, अच्चुयदेवेण इयरसुरा" ॥१॥ इति पञ्चसङ्ग्रहे। हैमवीरचरित्रदशमसर्गे तु"एवमाकर्ण्य सीतेन्द्रो, रामचन्द्रं प्रणम्य च । ययौ प्राक् स्नेहवशतो, दुःखभाग् यत्र लक्ष्मणः" ॥१॥॥१२॥
D:\ratan.pm5\5th proof