________________
श्रीविचाररत्नाकरे मध्यभागे एकादशस्तरङ्गः]
[१९९ समवायाङ्गसूत्रे ४६ पत्रे कृष्णजीवोऽममस्त्रयोदशस्तीर्थङ्करो भावीत्युक्तम् , अन्तकृत्सूत्रे तु-"इहेव जंबुद्दीवे दीवे भारहे वासे आगमिस्साए उस्सप्पिणीए पुप्फेसु जणवएसु सतदुवारे णगरे बारसमो अममो णाम अरहा भविस्सइ" इति ॥५।।
तथा ज्ञातानुसारेण द्रौपदी पञ्चमकल्पं गता । तथैव च श्रीहैमनेमिचरित्रे द्वादशे सर्गे"आकर्ण्य तद्गुरुशुचो विमलाद्रिमीयुः, पाण्डोः सुता विदधिरेऽनशनं च तत्र ।
उत्केवला: शिवमगुर्दुपदात्मजा तु, सा ब्रह्मलोकमगमत् परमद्धिधाम" ॥१॥ एवमेव च श्रीशत्रुञ्जयमाहात्म्येऽपि
"पाण्डवानामनुप्रापुर्मुनिपञ्चशतानि च। सहस्रे द्वे शिवागारं, प्राप्तानन्तचतुष्टयम् ॥१॥ द्रौपदी पञ्चमं कल्पमवाप्यानल्पपुण्यभृत्।
अन्ये तु मुनयः केचिच्छिवं स्वर्गं च केचन" ॥२॥इति । उत्तराध्ययनद्वितीयाध्ययनचतुर्दशसहस्त्रयां तु"दोवई वि रायमईसगासे पव्वज्जं काऊण अच्चुयकप्पं गया" । इति ॥६॥ "पव्वइओ जो माया-सम्मत्तिउ वीरपायमूलंमि। सो अभयकुमारमुणी, पत्तो विजयं वरविमाणं" ॥१॥ इति श्रीऋषिमण्डलसूत्रे ।
हैमवीरचरित्रे तु द्वादशे सर्गे"विविधाभिग्रहपूर्वं, पालयित्वा चिरं व्रतम् ।
मृत्वा सर्वार्थसिद्धेऽभूदभयः प्रवरः सुरः" ॥१॥ इति ।।७।। "श्रुत्वा तां देशनां भर्तुः, सम्यक्त्वं श्रेणिकोऽश्रयत् ।
श्रावकधर्मं त्वभयकुमाराद्याः प्रपेदिरे" ॥७६ ॥ इति श्रीहैमवीरचरित्रे ६ सर्गे। इत्यत्र श्रीवीराच्छ्रेणिकेन सम्यक्त्वं प्राप्तमित्युक्तम् । विंशोत्तराध्ययन ५८ गाथावचूर्णी तु
"एवं थुणित्ताण स रायसीहो, अणगारसीहं परमाइ भत्तीए ।
सओरोहो सपरियणो सबंधवो, धम्माणुरत्तो विमलेण चेयसा" ॥५८॥ विमलेन विगतमिथ्यात्वमलेन चेतसोपलक्षितः, इति । अत्र तु अनाथानगारादिति ।।८।। "ओहिनाणसुए बुद्धे, सीससंघसमाउले।गामाणुगामं रीयंते, सावत्थि नगरिमागए"॥
D:\ratan.pm5\5th proof