________________
श्रीविचाररत्नाकरे मध्यभागे
॥ एकादशस्तरङ्गः॥ कल्याणवल्लीजलदच्छटायै, प्रध्वस्तनिःशेषतमोघटायै ।
सुरासुरश्रेणिनिषेवितायै, नमोऽस्तु नित्यं श्रुतदेवतायै ॥१॥ अथानेकशास्त्रान्तर्वर्तीनि मतान्तराणि लिख्यन्ते
"मल्लिस्स णं अरहओ सत्तावन्नं मणपज्जवनाणीसते होत्था" । इति समवायाङ्गे । ज्ञाताधर्मकथाङ्गे तु-"अट्ठसया मणनाणीणं" ॥१॥
"सोलसदेवीसहस्सा वरनयणहिययदइया" इति प्रश्नव्याकरणे ४ आश्रवे । कृष्णस्य षोडश सहस्राः स्त्रीणाम् । ज्ञाताधर्मे तु–“रुप्पिणीपामोक्खाणं बत्तीसाए महिलासाहस्सीणं" ॥२॥
तथा श्रीजम्बूद्वीपप्रज्ञप्तिचतुर्दशे पत्रे-"पंचदस कुलगरा पण्णत्ता-सुमती १ पडिसुमती २ सीमंकरे ३ सीमंधरे ४ खेमंकरे ५ खेमंधरे ६ विमलवाहणे ७ चक्खुमं ८ जसमं ९ अभिचंदे १० चंदाभे ११ पसेणई १२ मरुदेवे १३ नाभी १४ उसभे १५" इति । स्थानाङ्गे च सावचूरिकपत्तौ १८१ पत्रे-समवायाङ्गसूत्रे च ४६ पत्रे
"पढमित्थविमलवाहण १, चक्खुम २ जसमं ३ चउत्थमभिचंदे ४ ।
तत्तो पसेणईए ५, मरुदेवे चेव नाभी य" ॥१॥ इति सप्तैवेति ॥३॥
तथा "विजयवेजयंतजयंतअपराजियाणं भंते ! देवाणं केवइयं कालं ठिती पण्णत्ता ? गोयमा ! जहन्नेणं बत्तीसं सागरोवमाइं, उक्कोसेणं तेत्तीसं सागरोवमाइं"। इति समवायाले ३२ समवाये । प्रज्ञापनायां तु चतुर्थे पदे ७५ पत्रे"विजयवेजयंतजयंतअपराजिएसु णं भंते ! देवाणं केवइयं कालं ठिती पण्णत्ता? गोयमा ! जहन्नेणं एक्कतीसं सागरोवमाइं उक्कोसेणं तेत्तीसं सागरोवमाइं" इति ॥४॥