________________
श्रीविचाररत्नाकरे मध्यभागे दशमस्तरङ्गः]
[१९७ स्यार्द्धतृतीयोत्सेधाङ्गलरूपं बाहल्यमस्ति, ततो यदा स्वकीयबाहल्येन युक्तं यथावस्थितमेवेदं चिन्त्यते तदोत्सेधाङ्गलाच्चतुःशतगुणमेव भवति, यदा त्वर्द्धतृतीयोत्सेधाङ्गललक्षणेन बाहल्येन शतचतुष्टयलक्षणं दैर्घ्यं गुण्यते तदाङ्गलविष्कम्भा सहस्राङ्गलदीर्घा प्रमाणाङ्गुलविषया सूचिर्जायते, इदमुक्तं भवति-अर्द्धतृतीयाङ्गुलविष्कम्भे प्रमाणाङ्गुले तिस्रः श्रेणयः कल्प्यन्ते, एका अङ्गुलविष्कम्भा शतचतुष्टयदीर्घा, द्वितीयाऽपि तावन्मानैव, तृतीयाऽपि दैर्येण चतुःशतमानैव विष्कम्भे त्वर्द्धाङ्गुलम् , ततोऽस्यापि दैर्ध्याच्छतद्वयं गृहीत्वा विष्कम्भोऽङ्गुलप्रमाणः सम्पद्यते, तथा च सत्यङ्गुलशतद्वयदीर्घा अङ्गुलविष्कम्भा इयमपि सिद्धा, ततस्तिसृणामपि एतासामुपर्युपरि व्यवस्थापने उत्सेधालतोऽङ्गलसहस्रदीर्घा अङ्गुलविष्कम्भा प्रमाणाङ्गलस्य सूचिः सिद्धा भवति, तत इमां सूचिमधिकृत्योत्सेधाङ्गलात्तत्सहस्रगुणमुक्तं वस्तुतस्तु चतु:शतगुणमेव, अत एव पृथ्वीपर्वतविमानान्यनेनैवचतुःशतगुणेनार्द्धतृतीयाङ्गललक्षणस्वविष्कम्भान्वितेनानीयन्ते, न तु सहस्रगुणया अङ्गुलविष्कम्भया सूच्येति, शेषं भावितार्थम् । इत्यानुयोगद्वारसूत्रवृत्तौ १४८ प्रतौ ९८ पत्रे ॥३॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवद्धितवृषरसालशालातिशालिशीलश्रीजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते
श्रीविचाररत्नाकरे मध्यभागे श्रीअनुयोगद्वारविचारनामा दशमस्तरङ्गः ॥१०॥
D:\ratan.pm5\5th proof