________________
[श्रीविचाररत्नाकरः प्रत्येकं चतुर्णां सद्भावादष्टकणिकम् , अधिकरणिः-सुवर्णकारोपकरणं तत्संस्थानेन संस्थितं-तत्सदृशाकारं समचतुरस्रमिति यावत्प्रज्ञप्तं-प्ररूपितम् , तस्य-काकिणीरत्नस्यैकैका कोटिरुत्सेधाङ्गप्रमाणाविष्कम्भा द्वादशाप्यस्रय एकैकस्य उत्सेधाङ्गलप्रमाणा भवन्तीत्यर्थः, अस्य समचतुरस्रत्वादायामो विष्कम्भश्च प्रत्येक-मुत्सेधाङ्गप्रमाण इत्युक्तं भवति, यैव च कोटिरूर्वीकृता आयामः प्रतिपद्यते सैव तिर्यक् व्यवस्थापिता विष्कम्भभाग् भवतीत्यायामविष्कम्भयोरेकतरनिर्णयेऽप्यपरनिश्चयः स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणम् , तद्ग्रहणे चायामोऽपि गृहीत एव, समचतुरस्र-त्वात्तस्येति, तदेवं सर्वत उत्सेधाङ्गलप्रमाणमिदं सिद्धम् । यच्चान्यत्र 'चउरंगुलप्पमाणा सुवण्णवरकागिणी ने ये'ति श्रूयते तन्मतान्तरं सम्भाव्यते, निश्चयं तु सर्ववेदिनो विदन्तीति । तदेकैककोटिगतमुत्सेधाङ्गुलं श्रमणस्य भगवतो महावीरस्या ङ्गुलम् , कथमिदम् ? उच्यते-श्रीमहावीरस्य सप्तहस्तप्रमाणत्वादेकैकस्य च हस्तस्य चतुर्विंशत्युत्सेधाङ्गुलमानत्वादष्टषष्ठ्याधिकशताङ्गुलमानो भगवानुत्सेधाङ्गलेन सिद्धो भवति, स एव चात्माङ्गलेन मतान्तरमाश्रित्य स्वहस्तेन सार्द्धहस्तत्रयमानत्वाच्चतुरशीत्यङ्गुलमानो गीयते, अतः सामर्थ्यादेकमुत्सेधाङ्गलं श्रीमन्महावीरात्माङ्गलापेक्षयाऽर्द्धाङ्गलमेव भवति, येषां तु मतेन भगवानात्माङ्गुलेनाष्टोत्तरशताङ्गुलमानः स्वहस्तेन सार्द्धहस्तचतुष्टयमानत्वात्तन्मतेन भगवत एकस्मिन्नात्माङ्गले एकमुत्सेधाङ्गलं तस्य पञ्च नवभागा भवन्ति १६ अष्टषष्ठ्यधिकशतस्याष्टोत्तरशतेन भागापहारे एतावत एव भावात् , यन्मतेन तु भगवान् विंशत्यधिकमङ्गुलशतं स्वहस्तेन पञ्चहस्तमानत्वात्तन्मतेन भगवत एकस्मिन्नात्माङ्गुल एकमुत्सेधाङ्गुलं तस्य च द्वौ पञ्चभागौ भवतः १३ अष्टषष्ठ्यधिकशतस्य विंशत्यधिकशतेन भागे हृते इयत एव लाभात् । तदेवमिहाद्यमतमपेक्ष्यैकमुत्सेधाङ्गलं भगवतदात्माङ्गलस्यार्द्धरूपतया प्रोक्तमित्यवसेयमिति । तदुच्छ्याङ्गुलं सहस्रगुणितं प्रमाणाङ्गुलं भवति, कथमिदमवसीयते ? उच्यते-भरतश्चक्रवर्ती प्रमाणाङ्गुलेनात्माङ्गुलेन च किल विंशतिशतमङ्गुलानां भवति, भरतात्माङ्गुलस्य प्रमाणाङ्गुलस्य चैकरूपत्वात् , उत्सेधाङ्गुलेन तु पञ्चधनु:शतमानत्वात् , प्रतिधनुश्च षण्णवत्यङ्गलसद्भावादष्टचत्वारिंशत्सहस्राण्यङ्गलानां सम्पद्यते, अतः सामर्थ्यादेकस्मिन् प्रमाणाङ्गले चत्वारि शतान्युत्सेधाङ्गलानां भवन्ति, विंशत्यधिकशतेनाष्टचत्वारिंशत्सहस्राणां च भागापहारे एतावतो लाभात् । यद्येवमुत्सेधाङ्गलात् प्रमाणाङ्गुलं चतुःशतगुणमेव स्यात् कथं सहस्रगुणमुक्तम् ? सत्यं, किन्तु प्रमाणाङ्गुल
D:\ratan.pm5\5th proof