________________
श्रीविचाररत्नाकरे मध्यभागे दशमस्तरङ्गः]
[१९५ इत्यादि निगमनम् । तदेवं स्वरूपत उक्तं भावावश्यकम् । इत्यनुयोगद्वारसूत्रहैमवृत्तौ १४८ प्रतौ २४ पत्रे ॥२॥
अथ प्रमाणङ्गुलस्वरूपं जिज्ञासया लिख्यते
से किं तं पमाणंगुले ? पमाणंगुले एगमेगस्स रन्नो चाउरंतचक्कवट्टिस्स अट्ठसोवन्निए कागिणिरयणे छत्तले दुवालसंसिए अट्ठकन्निए अहिगरणसंठाणसंठिए तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा तं समणस्स भगवओ महावीरस्स अद्धंगुलं तं सहस्सगुणियं पमाणंगुलं भवइ एएणं अंगुलप्पमाणेणं ॥इति । वृत्तिर्यथाउक्तमुत्सेधाङ्गुलम् , अथ प्रमाणाङ्गुलं विवक्षुराह–'से किं तं पमाणंगुले' इत्यादि, सहस्रगुणितादुत्सेधाङ्गुलप्रमाणाज्जातं प्रमाणाङ्गलम् , अथवा परमप्रकर्षरूपं प्रमाणं प्राप्तमङ्गुलं प्रमाणाङ्गलम् , नातः परं बृहत्तररमङ्गुलमस्तीति भावः, यदि वा समस्तलोकव्यवहारराज्यादिस्थितिप्रणेतृत्वेन प्रमाणभूतोऽस्मिन्नवसर्पिणीकाले तावद्युगादिदेवो भरतो वा तस्याङ्गलं प्रमाणङ्गलम् , एतच्च काकिणीरत्नस्वरूपपरिज्ञानेन शिष्यव्युत्पत्तिलक्षणं गुणाधिक्यं पश्यंस्तद्वारेण निरूपयितुमाह-'एगमेगस्स रण्णो' इत्यादि, एकैकस्य राज्ञश्चतुरन्तचक्रवर्तिनोऽष्टसौवर्णिकं काकिणीरत्नं षट्तलादिधर्मोपेतं प्रज्ञप्तम् , तस्यैकैका कोटिरुत्सेधाङ्गुलविष्कम्भा, तच्छ्रमणस्य भगवतो महावीरस्या ङ्गुलं, तत्सहस्रगुणं प्रमाणाङ्गलं भवतीति समुदायार्थः । तत्रान्यान्यकालोत्पन्नानामपि चक्रिणां काकिणीरत्नतुल्यताप्रतिपादनार्थमेकैकग्रहणम् , निरुपचरितराजशब्दविषयज्ञापनार्थं राजग्रहणम् , दिक्त्रयभेदभिन्नसमुद्रत्रयहिमवत्पर्वतपर्यन्तसीमाचतुष्टयलक्षणा ये चत्वारोऽन्तास्तांश्चतुरोऽपि चक्रेण वर्त्तयति-पालयतीति चतुरन्तचक्रवर्ती तस्य-परिपूर्णषट्खण्डभरतभोक्तुरित्यर्थः, चत्वारि मधुरतृणफलान्येक: श्वेतसर्षपः, षोडश श्वेतसर्षपाः एकं धान्यमाषफलम् , द्वे धान्यमाषफले एका गुञ्जा, पञ्च गुञ्जाः एकः कर्ममाषकः, षोडश कर्ममाषकाः एकः सुवर्णः, एतैरष्टभिः काकिणीरत्नं निष्पद्यते । एतानि च मधुरतृणफलादीनि भरतचक्रवर्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्यसम्भवे काकिणीरत्नं सर्वचक्रिणां तुल्यं न स्यात् , तुल्यं चेष्यते तदिति, चत्वारि चतसृष्वपि दिक्षु द्वे ऊर्ध्वाध इत्येवं षट्तलानि यत्र तत्षट्तलम् , अध उपरि पार्श्वतश्च प्रत्येकं चतसृणामस्रीणां भावाद्वादशास्त्रयः-कोट्यो यत्र तद्वादशास्रिकम् , कर्मिका:-कोणास्तेषां चाध उपरि च
१. अनु./२७० . ।
D:\ratan.pm5\5th proof