________________
१४]
[ श्रीविचाररत्नाकरः साविया वा तच्चित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तिव्वज्झवसाए तदट्ठोवउत्ते तदप्पियकरणे तब्भावणाभाविए अन्नत्थ कत्थइ मणं अकुव्वमाणे [ उव्वत्ते जिणवयणधम्माणुरागरत्तमणे ] उभओ कालं आवस्सयं करेइ से तं लोगुत्तरियं भावावस्सयं, से तं नोआगमओ भावावस्सयं ॥ इति । वृत्तिर्यथा - 'से किं तं लोउत्तरियं' इत्यादि, अत्र निर्वचनम् - 'लोउत्तरियं भावावस्सयं जण्णं' इत्यादि, 'जण्णं' ति णमिति वाक्यालङ्कारे, यदिदं श्रमणादयस्तच्चित्तादिविशेषणविशिष्टा उभयकालं प्रतिक्रमणाद्यावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावावश्यकमिति सण्टङ्कः, तत्र श्राम्यतीति श्रमण:- साधुः, श्रमणी - साध्वी, शृणोति साधुसमीपे जिनप्रणीतां सामाचारीमिति श्रावकः - श्रमणोपासकः, श्राविकाश्रमणोपासिका, वाशब्दाः समुच्चयार्थाः, तस्मिन्नेवावश्यके चित्तं - सामान्योपयोगरूपं यस्येति स तच्चित्तः, तस्मिन्नेव मनो - विशेषोपयोगरूपं यस्य स तन्मनाः, तत्रैव लेश्या - शुभपरिणामरूपा यस्येति स तल्लेश्यः, तथा तदध्यवसितः - इहाध्यवसायोऽध्यवसितम्, ततश्च तच्चित्तादिभावयुक्तस्य सतस्तस्मिन्नेवावश्यकेऽध्यवसितं क्रियासम्पादनविषयमस्येति तदध्यवसितः, तथा तत्तीव्राध्यवसायः - तस्मिन्नेवावश्यके तीव्रं प्रारम्भकालादारभ्य प्रतिक्षणं प्रकर्षयायि प्रयत्नविशेषलक्षणमध्यवसानं यस्य सः तथा, तथा तदर्थोपयुक्तस्तस्यआवश्यकस्यार्थस्तदर्थस्तस्मिन्नुपयुक्तस्तदर्थोपयुक्तः प्रशस्ततरसंवेगविशुद्ध्यमानस्तस्मिन्नेव प्रतिसूत्रं प्रतिक्रियं चार्थेषूपयुक्त इत्यर्थः, तथा तदर्पितकरणः, करणानि - तत्साधकतमानि देहरजोहरणुखवस्त्रिकादीनि तस्मिन् - आवश्यके यथोचितव्यापारनियोगेनार्पितानि नियुक्तानि येन स तथा, सम्यक् यथास्थानन्यस्तोपकरण इत्यर्थः, तथा तद्भावनाभावितस्तस्यआवश्यकस्य भावना-अव्यवच्छिन्नपूर्वपूर्वतरसंस्कारस्य पुनः पुनस्तदनुष्ठानरूपा तया भव अङ्गाङ्गिभावेन परिणतावश्यकानुष्ठानपरिणामस्तद्भावनाभावितः, तदेवं यथोक्तप्रकारेण प्रस्तुतव्यतिरेकतोऽन्यत्र कुत्रापि मनोऽकुर्वन्नुपलक्षणत्वाद्वाचं कायं चान्यत्राकुर्वन्, एकार्थिकानि वा विशेषणान्येतानि प्रस्तुतोपयोगप्रकर्षप्रतिपादनपराणि, अमूनि च लिङ्गविपरिणामतः श्रमणी - श्राविकयोरपि योज्यानि, तस्मात्तच्चित्तादिविशेषणविशिष्टाः श्रमणादय उभयकालं-उभयसन्ध्यं यदावश्यकं कुर्वन्ति तल्लोकोत्तरिकं भावमाश्रित्य भावश्चासावावश्यकं चेति वा भावावश्यकम्, अत्राप्यवश्यं करणादावश्यकत्वम्, , तदुपयोगपरिणामस्य च सद्भावाद्भावत्वम्, मुखवस्त्रिका - प्रत्युपेक्षणरजोहरणव्यापारादिक्रियालक्षणदेशस्यानागमत्वान्नोआगमत्वं भावनीयम् । ‘से तं’
D:\ratan.pm5\5th proof