________________
श्रीविचाररत्नाकरे मध्यभागे दशमस्तरङ्गः]
[१९३ द्रव्यमात्रे क्रियमाणत्वाविशेषान्नानयोः कश्चिद्विशेषः, अत्रोत्तरमाह-'नामं आवकहियं' इत्यादि, नाम यावत्कथिकं-स्वाश्रयद्रव्यस्यास्तित्वकथां यावदनुवर्त्तते, न पुनरन्तराप्युपरमते, स्थापना पुनरित्वरा-स्वल्पकालभाविनी वा स्यात् यावत्कथिका वा, स्वाश्रयद्रव्येऽवतिष्ठमानेऽपि काचिदन्तराऽपि निवर्त्तते, काचित्तु तत्सत्तां यावदवतिष्ठते इति भावः, तथाहि-नाम आवश्यकादिकं मेरुजम्बूद्वीपकलिङ्गमगधसुराष्ट्रादिकं वा यावत्स्वाश्रयो गोपालदारकदेहादिः शिलासमुच्चयादिर्वा समस्ति तावदवतिष्ठते इति तद्यावत्कथिकम् , स्थापना त्वावश्यकत्वेन योऽक्षः स्थापितः स क्षणान्तरे पुनरपि तथाविधप्रयोजनसम्भवे इन्द्रत्वेन स्थाप्यते पुनरपि च राजादित्वेनेत्यल्पकालीना, शाश्वतप्रतिमादिरूपा यावत्कथिका, तस्याश्चार्हदादिरूपेण सर्वदा तिष्ठतीति स्थापना इति व्युत्पत्तेः स्थापनात्वमवसेयम् , न तु स्थाप्यत इति स्थापना, शाश्वतत्वेन केनापि स्थाप्यमानत्वाभावादिति, तस्माद्भावशून्यद्रव्याधारसाम्येऽप्यस्त्यनयोः कालकृतो विशेषः । अत्राह-ननु यथा स्थापना काचिदल्पकालीना तथा नामापि किञ्चिदल्पकालीनमेव, गोपालदारकादौ विद्यमानेऽपि कदाचिदनेकनामपरावृत्तिदर्शनात् सत्यं, किन्तु प्रायो नाम यावत्कथिकमेव, यस्तु क्वचिदन्यथोपलम्भः सोऽल्पत्वान्नेह विवक्षित इत्यदोषः, उपलक्षणमात्रं चेदं कालभेदेनैतयोर्भेदकथनं, अपरस्यापि बहुप्रकारभेदस्य सम्भवात् , तथाहि-यथेन्द्रादिप्रतिमास्थापनायां कुण्डलाङ्गदादिभूषितः सन्निहितशचीवज्रादिराकार उपलभ्यते न तथा नामेन्द्रादौ, एवं यथा तत्स्थापनादर्शनाद्भावः समुल्लसति नैवमिन्द्रादिनामश्रवणात् , यथा तत्स्थापनायां लोकस्योपयाचितेच्छापूजाप्रवृत्तिसमीहितलाभादयो दृश्यन्ते नैवं नामेन्द्रादाविति, एवमन्यदपि वाच्यम् । इत्यनुयोगद्वारसूत्रहैमवृत्तौ १४८ प्रतौ ११ । १२ पत्रे ॥१॥
केचिच्च श्रावक श्राविकाणां मुखवस्त्रिकां निषेधयन्ति, अपरे च रजोहरणं भूमिप्रमार्जनमिति कृत्वा मुखाग्रे न स्थापनीयं किन्तु भूम्यामेव स्थापनीयम् , इत्यादि स्वस्वान्तःकल्पनाकवलितशुद्धधिषणाः स्वात्मनां परेषां मुग्धबुद्धीनां चानन्तभवभ्रान्तिहेतवो भवन्ति, ततस्तदुपकाराय रजोहरणमुखवस्त्रिकादीनां सत्तासूचकाक्षराणि तेषां यथोचितव्यापारणाक्षराणि च लिख्यन्ते
१से किं तं लोउत्तरियं भावावस्सयं जण्णं समणो वा समणी वा सावओ वा
१. अनु./२८ सू.।
D:\ratan.pm5\5th proof