________________
[श्रीविचाररत्नाकरः कालं तत्क्रियते इत्याह-अल्पः कालो यस्य तदल्पकालं-इत्वरकालमित्यर्थः, चशब्दाद्यावत्कथिकं च शाश्वतप्रतिमादि, यत्पुनर्भावेन्द्राद्यर्थरहितं साकारमनाकारं वा तदर्थाभिप्रायेण क्रियते तत्स्थापना, इति तात्पर्यमित्यार्यार्थः ॥१॥ इदानीं प्रकृतमुच्यते-'जण्णं' इति, णमिति वाक्यालङ्कारे, यत्काष्ठकर्मणि वा चित्रकर्मणि वा यावद्वराटके वा एको वा अनेको वा सद्भावस्थापनया वा असद्भावस्थापनया वा 'आवस्सए'त्ति आवश्यकतद्वतोरभेदोपचारात्तद्वानिह गृह्यते, ततश्चैको वा अनेको वा, कथम्भूताः ? अत उच्यते
आवश्यकक्रियावानावश्यकक्रियावन्तो वा 'ठवणा ठविज्जई'त्ति स्थापनारूपं स्थाप्यतेक्रियते तत्स्थापनावश्यकमित्यादिपदेन सम्बन्धः, इति समुदायार्थः, काष्ठकर्मादिष्वावश्यकक्रियां कुर्वन्तो यत् स्थापनारूपाः साध्वादयः स्थाप्यन्ते तत्स्थापनावश्यकमिति तात्पर्यम् । अधुनाऽवयवार्थ उच्यते-तत्र क्रियत इति कर्म, काष्ठे कर्म काष्ठकर्म काष्ठनिकुट्टितं रूपकमित्यर्थः, चित्रकर्म-चित्रलिखितं रूपकम् , 'पोत्थकम्मे व'त्ति पोत्थं-पोतं वस्त्रमित्यर्थः, तत्र कर्म-तत्पल्लवनिष्पन्नं धीउल्लिकारूपकमित्यर्थः, अथवा पोत्थं-पुस्तकं तच्चेह सम्पुटकरूपं गृह्यते, तत्र कर्म तन्मध्ये वतिकालिखितं रूपकमित्यर्थः, अथवा पोत्थं-ताडपत्रादि तत्र कर्म-तच्छेदननिष्पन्नं रूपकम् , लेप्यकर्मलेप्यरूपकम् , ग्रन्थिमं-कौशलातिशयाद् ग्रन्थिसमुदायनिष्पादितरूपकम् , वेष्टिमंपुष्पवेष्टनक्रमेण निष्पन्नमानन्दपुरादिप्रतीतरूपम , अथवा एकं व्यादीनि वा वस्त्राणि वेष्टयन् कश्चिद्रूपकमुत्थापयति तद्वेष्टिमम् , पूरिमं-भरिमं पित्तलादिमयप्रतिमावत् , सङ्घातिमं-बहुवस्त्रादिखण्डसङ्घातनिष्पन्नं कञ्चुकवत् , अक्ष:-चन्दनको, वराटक:कपर्दकः, अत्र वाचनान्तरेऽन्यान्यपि दन्तकर्मादिपदानि दृश्यन्ते तान्यप्युक्तानुसारतो भावनीयानि, वाशब्दाः पक्षान्तरसूचकाः, यथासम्भवमेवमन्यत्रापि एतेषु काष्ठकर्मादिष्वावश्यकक्रियां कुर्वन्त एकादिसाध्वादयः सद्भावस्थापनयाऽसद्भावस्थापनया वा स्थाप्यमानाः स्थापनावश्यकम् , तत्र काष्ठकर्मादिष्वाकारवती सद्भावस्थापना साध्वाकारस्य तत्र सद्भावात् , अक्षादिषु त्वनाकारवती असद्भावस्थापना साध्वाद्याकारस्य तत्रासद्भावादिति, निगमयन्नाह-'से तं' इत्यादि, तदेतत्स्थापनावश्यमित्यर्थः । अत्र नामस्थापनयोरभेदं पश्यन्निदमाह-'नामट्ठवणाणं को पइविसेसो' त्ति, नामस्थापनयोः कः प्रतिविशेषो ? न कश्चिदित्यभिप्रायः, तथाह्यावस्यकादिभावार्थशून्ये गोपालदारकादौ द्रव्यमाने यथावश्यकादि नाम क्रियते, ततस्थापनापि तथैव तच्छून्ये काष्ठकर्मादौ द्रव्यमाने क्रियते, अतो भावशून्ये
D:\ratan.pm5\5th proof