________________
श्रीविचाररत्नाकरे मध्यभागे
॥ दशमस्तरङ्गः ॥
यदि भूरिभवाभोगभ्रान्तिश्रान्तं भवन्मनः ।
भगवद्भारतीभक्तिभाजो भवत तद्धृशम् ॥१॥ अथ श्रीअनुयोगद्वारसूत्रवृत्तिविचारा लिख्यन्ते तत्र च स्थापनाऽक्षराणि लिख्यन्ते
से किं तं ठवणावस्सयं ? ठवणावस्सयं जन्नं कठुकम्मे वा १ चित्तकम्मे वा २ पोत्थकम्मे वा ३ लेप्पकम्मे वा ४ गंथिमे वा ५ वेढिमे वा ६ पूरिमे वा ७ संघाइमे वा ८ अक्खे वा ९ वराडए वा १० एगो वा अणेगो वा सब्भावट्ठवणाए वा असब्भावट्ठवणाए वा आवस्सए त्ति ट्ठवणा ठविज्जइ से तं ठवणावस्सयं । नामट्टवणाणं को पइविसेसो ? नामं आवकहिअं, ठवणा इत्तरिआ वा होज्जा आवकहिआ वा ॥ इति । वृत्तिर्यथा-इदानीं स्थापनावश्यकनिरूपणार्थमाह-'से किं तं' इत्यादि । अथ किं तत्स्थापनावश्यकं ? इति प्रश्ने सत्याह-'ठवणावस्सयं जण्णं' इत्यादि, तत्र स्थाप्यते-अमुकोऽयमभिप्रायेण क्रियते निर्वर्त्यत इति स्थापना-काष्ठकर्मादिगतावश्यकवत् साध्वादिरूपा सा चासौ आवश्यकतद्वतोरभेदोपचारादावश्यकं च स्थापनावश्यकं, स्थापनालक्षणं च सामान्यत इदम्-"यत्तु तदर्थवियुक्तं, तदभिप्रायेण यच्च तत्करणि, लेप्यादिकर्म तत्स्थापनेति क्रियतेऽल्पकालं च" ॥१॥[ ] इति । विनेयानुग्रहार्थमत्रापि व्याख्या-तुशब्दो नामलक्षणात् स्थापनालक्षणस्य भेदसूचक: स चासावर्थश्च तदर्थो भावेन्द्रभावावश्यकादिलक्षणः तेन वियुक्तं-रहितं यद्वस्तु तदभिप्रायेण क्रियतेस्थाप्यते तत्स्थापनेति सम्बन्धः । किंविशिष्टं यदित्याह-यच्च तत्करणि तेन भावेन्द्रादिना सह करणिः-सादृश्यं यस्य तत्तत्करणि-तत्सदृशमित्यर्थः, चशब्दात्तदकरणि चाक्षादिवस्तु गृह्यते, अतत्सदृशमित्यर्थः, किं पुनस्तदेवम्भूतं वस्तु इत्याह-लेप्यादिकर्मेति-लेप्यादिपुत्तलिकादीत्यर्थः, आदिशब्दात् काष्ठपुत्तलिकादि वस्तु गृह्यते, अक्षादि वानाकारं, कियन्तं
१. अनु./११-१२ सू.।
D:\ratan.pm5\5th proof