________________
[श्रीविचाररत्नाकरः लिङ्गं प्रतिपद्यते, यदि चैकाकी विहरणसमर्थ इच्छा च तस्य तथारूपा जायते तत एकाकी विहरत्यन्यथा गच्छवासेऽवतिष्ठते, अथ पूर्वाधीतं श्रुतं न भवति तर्हि नियमाद् गुरुसन्निधे गत्वा लिङ्गं प्रतिपद्यते गच्छं चावश्यं न मुञ्चति, उक्तं च चूर्णिकृता"पुव्वाधीयं से सुयं हवइ वा न वा जइ से नत्थि तो लिंगं नियमा गुरुसन्निहे पडिवज्जइ गच्छे य विहरइ त्ति, पुव्वाधीयसुअसंभवो अत्थि तो से लिंगं देवया पयच्छइ गुरुसन्निधे वा पडिवज्जइ जइ एगविहारविहरणजोग्गो इच्छा वा से तो एक्को वि विहरड़ अन्नहा गच्छे चेव विहरड्" [ ] इति । प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो भवति तच्च जघन्यत एकादशाङ्गानि उत्कर्षतः किञ्चिन्यूनानि दशपूर्वाणि तथा लिङ्गं तस्मै देवताः प्रयच्छन्ति लिङ्गरहितो वा कदाचिद्भवति, तथाऽऽह चूर्णिकृत्-"पत्तेयबुद्धाणं पुव्वाधीअं सुअं नियमा हवइ जहन्नउ इक्कारसअंगाई उक्कोसेणं भिन्नदसपुव्वाइं लिंगं च से देवया पयच्छड़ लिंगवज्जिओ वा भवइ जतो भणियं कप्पं पत्तेयबुद्धा" [ ] इति । तथा बुद्धाआचार्यास्तैर्बोधिताः सन्तो ये सिद्धास्ते बुद्धबोधितसिद्धाः ७, एते च केचित् स्त्रीलिङ्गसिद्धाः, स्त्रियो लिङ्ग स्त्रीलिङ्गं स्त्रीत्वस्योपलक्षणमित्यर्थः, तच्च त्रिधा तद्यथावेदः शरीरनिर्वृत्तिर्नेपथ्यं च, तत्रेह शरीरनिर्वृत्त्या प्रयोजनं न वेदनेपथ्याभ्यां वेदे सति सिद्धत्वाभावात् नेपथ्यस्य चाप्रमाणत्वात् , आह च चूर्णिकृत्-"इत्थीए लिंगं इत्थीलिंगं इत्थीए उवलक्खणं वुत्तंति भवति तं च तिविहं वेओ सरीरनिव्वत्ती नेवत्थं च, इह शरीरनिव्वत्तीए अहिगारो न वेद निवत्थेहिं" ति । तस्मिन् स्त्रीलिङ्गे वर्तमानाः सन्तो ये सिद्धास्ते स्त्रीलिङ्गसिद्धाः ८, एतेन यदाहुराशाम्बरा न स्त्रीणां निर्वाणमिति तदपास्तं द्रष्टव्यम् , स्त्रीनिर्वाणस्य साक्षादनेन सूत्रेणाभिधानात्तत्प्रतिषेधस्य च युक्त्यनुपपन्नत्वात् । तथा हि-मुक्तिपथो ज्ञानदर्शन-चारित्राणि “सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः" [तत्त्वा. अ.१।१] इति वचनात् सम्यग्दर्शनादीनि च पुरुषाणामिव स्त्रीणामप्यविकलानि, तथा हि-दृश्यन्ते स्त्रियोऽपि सकलमपि प्रवचनार्थमभिरोचयमानाः, जानते च षडावश्यककालिकोत्कालिकादिभेदभिन्नं श्रुतम् , परिपालयन्ति च सप्तदशविधमकलङ्कं संयमम् , धारयन्ति च देवासुराणामपि दुर्द्धरं ब्रह्मचर्यम् , तप्यन्ते च तपांसि मासक्षपणादीनि, ततः कथमिव तासां न मोक्षसम्भवः ? स्यादेतदस्ति स्त्रीणां सम्यग्दर्शनं ज्ञानं च न पुनश्चारित्रं संयमाभावात् , तथा हि-स्त्रीणामवश्यं वस्त्रपरिभोगेन भवितव्यमन्यथाऽविवृताङ्ग्यस्तास्तिर्यग्स्त्रिय इव पुरुषाणामभिभवनीया भवेयुः, लोके च गर्होपजायते ततोऽवश्यं
D:\ratan.pm5\5th proof