________________
श्रीविचाररत्नाकरे मध्यभागे नवमस्तरङ्गः]
[१८७ ताभिर्वस्त्रं परिभोक्तव्यम् , वस्त्रपरिभोगे च सपरिग्रहता सपरिग्रहत्वे च संयमाभाव इति, तदसमीचीनं सम्यग्सिद्धान्तापरिज्ञानात् , परिग्रहो हि परमार्थतो मूर्छाभिधीयते "मुच्छा परिग्गहो वुत्तो" [ द.वै.६।२१ ] इति वचनप्रमाण्यात् , तथा हि मूरिहितो भरतश्चक्रवर्ती सान्तःपुरोऽप्यादर्शकगृहेऽवतिष्ठमानो निष्परिग्रहो गीयते अन्यथा केवलोत्पादासम्भवात् , अपि च यदि मूर्छाया अभावेऽपि वस्त्रसंसर्गमात्रं परिग्रहो भवेत्ततो जिनकल्पप्रतिपन्नस्य कस्यचित् साधोस्तुषारकणानुषिक्ते प्रपतति शीते केनाप्यविषयोपनिपातमद्यशीतमीति विभाव्य धर्मार्थिना शिरसि वस्त्रे प्रज्ञिप्ते तस्य सपरिग्रहता भवेत् , न चैतदिष्टं, तस्मान्न संसर्गमात्रं परिग्रहः किन्तु मूर्छा, सा च स्त्रीणां वस्त्रादिषु न विद्यते धर्मोपकरणमात्रतया तस्योपादानात् , न खलु ता वस्त्रमन्तरेणात्मानं रक्षितुमीशते नापि शीतकालादिष्वग्दिशायां स्वाध्यायादि कर्तुम् । ततो दीर्घतरसंयमपरिपालनाय यतनया वस्त्रं परिभुञ्जाना न ताः परिग्रहवत्यः । अथोच्येत सम्भवति नाम स्त्रीणामपि सम्यग्दर्शनादिकं रत्नत्रयं, परं न तत्सम्भवमात्रेण मुक्तिपदप्रापकं भवति किन्त प्रकर्षप्राप्तम , अन्यथा दीक्षानन्तरमेव सर्वेषामप्यविशेषण मुक्तिपदप्राप्तिप्रसक्तेः, सम्यग्दर्शनादिरत्नत्रयप्रकर्षश्च स्त्रीणामसम्भवी ततो न निर्वाणमिति तदप्युक्तम् , स्त्रीषु रत्नत्रयप्रकर्षासम्भवग्राहकस्य प्रमाणस्याभावात् , न खलु सकलदेशकालव्याप्त्या स्त्रीषु रत्नत्रयप्रकर्षासम्भवग्राहकं प्रत्यक्षं अनुमानं वा प्रमाणं विजृम्भते, देशकालविप्रकृष्टतया तत्र प्रत्यक्षस्याप्रवृत्तेः, तदप्रमाणवृत्तौ चाऽनुमानस्याप्यसम्भवात् , नापि तासु रत्नत्रयप्रकर्षासम्भवप्रतिपादकः कोऽप्यागमो विद्यते प्रत्युत सम्भवप्रतिपादक: स्थाने स्थानेऽस्ति, यथा-इदमेव प्रस्तुतं सूत्रं ततो न तासां रत्नत्रयप्रकर्षासम्भवः, अथ मन्येथाः स्वभावत एवातपेनेव छाया विरुध्यते स्त्रीत्वेन रत्नत्रयप्रकर्षः ततस्तदसम्भवोऽनुमीयते तदयुक्तं युक्तिविरोधात् , तथा हि-रत्नत्रयप्रकर्षः स उच्यते यतोऽनन्तरं मुक्तिपदप्राप्तिः स चायोग्यवस्थाचरमसमये स चास्माकमप्रत्यक्षः, ततः कथं विरोधगतिः ? न हि अदृष्टेन सह विरोधः प्रतिपत्तुं शक्यते मा प्राप्त पुरुषेष्वतिप्रसङ्गः । ननु जगति सर्वोत्कृष्टपदप्राप्तिः सर्वोत्कृष्टेनाध्यवसायेनावाप्यते नान्यथा, एतच्चोभयोरप्यावयोरागमप्रामाण्यबलतः सिद्धम् , सर्वोत्कृष्टे च द्वे पदे सर्वोत्कृष्टं दुःखस्थानं सर्वोत्कृष्टं सुखस्थानं च, तत्र सर्वोत्कृष्टं दुःखस्थानं सप्तमनरकपृथ्वी अतः परमदुःखस्थानस्याभावात् सर्वोत्कृष्टं सुखस्थानं तु निःश्रेयसं ततः परमन्यस्य सुखस्थानस्यासम्भवात् , ततः स्त्रीणां सप्तमनरकपृथ्वीगमनमागमे निषिद्धं निषेधस्य च कारणं
D:\ratan.pm5\5th proof