________________
[१८५
श्रीविचाररत्नाकरे मध्यभागे नवमस्तरङ्गः] पाश्चात्यभवरूपोपाधिभेदापेक्षया पञ्चदशविधत्वात् , ततोऽनन्तरभवोपाधिभेदतः पञ्चदशविधतां मुख्यत आह-तद्यथेत्युपदर्शने 'तित्थसिद्धा' इत्यादि, तीर्यते संसारसागरोऽनेनेति तीर्थं-यथावस्थितसकलजीवाजीवादिपदार्थप्ररूपकं परमगुरुप्रणितप्रवचनम् , तच्च निराधारं न भवतीति कृत्वा सङ्घः प्रथमगणधरो वा वेदितव्यम् , उक्तं च–“तित्थं भंते ! तित्थं तित्थकरे तित्थं ? गोयमा ! अरहा ताव तित्थंकरे तित्थं पुण चाउव्वणो समणसंघो पढमगणहरो वा" ।[ ] तस्मिन् उत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः १, तथा तीर्थस्याऽभावोऽतीर्थः तीर्थस्याभावश्च-अनुत्पादः अपान्तराले व्यवच्छेदो वा तस्मिन् ये सिद्धास्तेऽतीर्थसिद्धाः, तत्र तीर्थानुत्पादे सिद्धा मरुदेवीप्रभृतयः, न हि मरुदेव्यादिसिद्धिगमनकाले तीर्थमुत्पन्नमासीत् , तथा तीर्थव्यवच्छेदश्चन्द्रप्रभस्वामिसुविधिस्वाम्यपान्तराले तत्र ये जातिस्मरणादिनाऽपवर्गमवाप्य सिद्धास्ते तीर्थव्यवच्छेदे सिद्धाः २, तथा तीर्थङ्कराः सन्तो ये सिद्धास्ते तीर्थङ्करसिद्धाः ३, अतीर्थकरसिद्धा-अन्ये सामान्यकेवलिनः ४, तथा स्वयम्बुद्धाः सन्तो ये सिद्धास्ते स्वयम्बुद्धसिद्धाः ५, तथा प्रत्येकबुद्धाः सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः ६, अथ स्वम्बुद्ध-प्रत्येकबुद्धानां कः प्रतिविशेषः ? उच्यते बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथा हि-स्वयम्बुद्धा बाह्यप्रत्ययमन्तरेणैव बुद्ध्यन्ते स्वयमेव-बाह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना बुद्धाः स्वयम्बुद्धाः इति व्युत्पत्तेः, ते च द्विधा तीर्थकरास्तीर्थकरव्यतिरिक्ताश्च इह तीर्थकरव्यतिरिक्तैरधिकारः, आह च चूर्णिकृत् “ते दुविहा तित्थयरा तित्थयरवतिरित्ता वा इह वत्तिरित्तेहिं अहिगारो"।[ ] इति । प्रत्येकबुद्धास्तु बाह्यप्रत्ययमपेक्ष्य बुद्ध्यन्ते प्रत्येकंबाह्यं वृषभादिकं कारणामभिसमीक्ष्य बुद्धाः-प्रत्येकबुद्धा इति व्युत्पत्तेः, तथा च श्रूयतेबाह्यवृषभादिककारणसापेक्ष्य करकण्ड्वादीनां बोधिः, बहिः प्रत्ययमपेक्ष्य च बुद्धाः सन्तो नियमतः प्रत्येकमेव विहरन्ति न गच्छवासिन इव संहिता, आह च चूर्णिकृत्"पत्तेयं बाह्यं वृषभादिकारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः, बहिःप्रत्ययप्रतिबुद्धानां च पत्तेयं नियमा विहारो जम्हा तम्हा य ते पत्तेयबुद्धा"।[ ] इति । तथा स्वयम्बुद्धानामुपधि
दशविध एव पात्रादिकः, प्रत्येकबुद्धानां तु द्विधा-जघन्यतः उत्कर्षतश्च, तत्र जघन्यतो द्विविधः उत्कर्षतो नवविधप्रावरणवर्जः, आह च चूर्णिकृत्-“पत्तेयबुद्धाणं जहन्नेणं दुविहो उक्कोसेणं नवविहो नियमा पावरणवज्जो भवइ"।[ ] तथा स्वयम्बुद्धानां पूर्वाधीतं श्रुतं भवति वा न वा यदि भवति ततो लिङ्गं देवताः प्रयच्छन्ति गुरुसन्निधौ वा गत्वा
D:\ratan.pm5\5th proof