________________
श्रीविचाररत्नाकरे मध्यभागे
॥ नवमस्तरङ्गः ॥ यस्मादयं समग्रो, व्यवहारो जृम्भते जगन्मध्ये ।
तदहं धृतबहुमानं, विधिना सेवे श्रुतज्ञानम् ॥१॥ अथ नन्दीसूत्रविचारा लिख्यन्ते-तत्र पूर्वं श्रीजिनप्रासादसद्भावाक्षराणि लिख्यन्ते१संवरवरजलपगलिय-उज्झरपविरायमाणहारस्स।
सावगजणपउररवंत-मोरनच्चंतकुहरस्स ॥१५॥ व्याख्या-'संवर' इत्यादि, संवर:-प्राणातिपातादिरूपपञ्चाश्रवप्रत्याख्यानरूपः तदेव कर्ममलप्रक्षालनात् सांसारिकतृडपनोदकारित्वात् परिणामसुन्दरत्वाच्च वरजलमिव संवरवरजलं तस्य प्रगलितः-सातत्येन व्यूढ उज्झर:-प्रवाहः स एव प्रविराजमानो हारो यस्य स तथा तस्य, श्रावकजना एव स्तुतिस्तोत्रस्वाध्यायाद्याराधनमुखरतया प्रचुरा रवन्तो मयूरास्तैर्नृत्यन्तीव कुहराणि-जिनमण्डपादिरूपाणि यस्य स तथा तस्य । इति नन्दीवृत्तौ १९२ प्रतौ ४२ पत्रे ॥१॥
__ अथ केचनाऽज्ञानिनः स्त्रीणां मुक्तिं न मन्यन्ते, तद्युक्तियुक्तसिद्धान्तेन निराकर्तुं लिख्यते
से किं तं अणंतरसिद्धकेवलनाणं? अणंतरसिद्धकेवलनाणं पन्नरसविहं पन्नत्तं तंजहा-तित्थसिद्धा १ अतित्थसिद्धा २ तित्थयरसिद्धा ३ अतित्थयरसिद्धा ४ सयंबुद्धसिद्धा ५ पत्तेयबुद्धसिद्धा ६ बुद्धबोहियसिद्धा ७ इथिलिंगसिद्धा ८ पुरिसलिंगसिद्धा ९ नपुंसगलिंगसिद्धा १० सलिंगसिद्धा ११ अन्नलिंगसिद्धा १२ गिहिलिंगसिद्धा १३ एगसिद्धा १४ अणेगसिद्धा १५ से तं अणंतरसिद्धकेवलनाणं ॥ इति । वृत्तिर्यथा-'से किं तं' इत्यादि, अथ किं तदनन्तरसिद्धकेवलज्ञानम् ? सूरिराह-अनन्तरसिद्धकेवलज्ञानं पञ्चदशविधं प्रज्ञप्तम् , पञ्चदशविधता चास्यानन्तर
१. नन्दी./१५सू. । २. नन्दी./८७सू. ।